भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 112, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 112

९४ हठयोगप्रदीपिका सुषुम्नायामित्यध्याहार्यम् । तदेव बन्धविशेषमुड्डीयानामकं स्यात् । तत्र तस्मिन् विषये बन्धोऽभिधीयते बन्धस्वरूपं कथ्यते मयेति शेषः ॥ ५६ ॥ उदरे पश्चिमं तानं नाभेरुर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ ५७ ॥ उड्डीयानबन्धमाह—उदर इति । उदरे तुन्दे नाभेरुर्ध्वं चकारादधः उपरिभागेऽधोभागे च पश्चिमं तानं पश्चिमाकर्षणं नाभेरुर्ध्वाधोभागौ यथा पृष्ठसंलग्नौ स्यातां तथा तानं ताननं नामाकर्षणं कारयेत् कुर्यात् । णिजर्थो- ऽविवक्षितः । असौ नाभेरुर्ध्वाधोभागयोस्ताननरूप उड्डीयान उड्डीयानाख्यो बन्धः । कीदृशः मृत्युरेव मातङ्गो गजस्तस्य केसरी सिंहः सिंह इव निवर्तकः ॥ ५७ ॥ उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत् सततं यस्तु वृद्धोऽपि तरुणायते ॥ ५८ ॥ उड्डीयानं त्विति । गुरुर्हितोपदेष्टा तेन गुरुणा उड्डीयानं तु सदा सर्वदा सहजं स्वाभाविकं कथितम् । प्राणस्य बहिर्गमने सर्वदा सर्वस्यैव जायमानत्वात् । यस्तु यः पुरुषस्तु सततं निरन्तरमभ्यसेत् । उड्डीयानमित्यत्रापि संबध्यते । स तु वृद्धोऽपि स्थविरोऽपि तरुणायते तरुण इवाचरति तरुणायते ॥ ५८ ॥ नाभेरुर्ध्वमधश्चापि तानं कुर्यात् प्रयत्नतः । षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ५९ ॥ नाभेरिति । नाभेरुर्ध्वमुपरिभागेऽधश्चाप्यधोभागेऽपि प्रयत्नतः प्रकृष्टो यत्नः प्रयत्नस्तस्मात् प्रयत्नतः । यत्नविशेषात् तानं पश्चिमतानं कुर्यात् ।