हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 139, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १२१ मारुतस्य विक्षेपेऽन्यस्मिन् विषये मनोवृत्तिर्मनसो वृत्तिः प्रवृत्तिर्न कर्तव्या न कार्या ॥ १२७ ॥ इति मुद्रा दश प्रोक्ता आदिनाथेन शंभुना । एकैका तासु यमिनां महासिद्धिप्रदायिनी ॥ १२८ ॥ मुद्रा उपसंहरति--इतीति । आदिनाथेन सर्वेश्वरेण शंभुना शं सुखं भवत्यस्मादिति शंभुस्तेन । इत्युक्तरीत्या दश दशसंख्याका मुद्राः प्रोक्ताः कथिताः । तासु मुद्रासु मध्ये एकैकापि प्रत्येकमपि या काचन मुद्रा यमिनां यमवतां योगिनां महासिद्धिप्रदायिनी, अणिमादिप्रदात्री कैवल्यप्रदात्री वा ॥ १२८ ॥ उपदेशं हि मुद्राणां यो दत्ते सांप्रदायिकम् । स एव श्रीगुरुः स्वामी साक्षादीश्वर एव सः ॥ १२९ ॥ मुद्रोपदेष्टारं गुरुं प्रशंसति--उपदेशमिति । यः पुमान् मुद्राणां महामुद्रादीनां संप्रदायाद् योगिनां गुरुपरंपरारूपादागतं सांप्रदायिकमुपदेशं दत्ते ददाति । स एव स पुमानेव श्रीगुरुः श्रीमान् गुरुः, सर्वगुरुभ्यः श्रेष्ठ इत्यर्थः । स्वामी प्रभुः स एव, साक्षात्प्रत्यक्ष ईश्वर एव सः । ईश्वराभिन्न एव स इत्यर्थः ॥ १२९ ॥ तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः । अणिमादिगुणैः सार्धं लभते कालवञ्चनम् ॥ १३० ॥ इति श्रीस्वात्मारामयोगीन्द्रविरचितायां हठयोगप्रदीपिकायां मुद्राविधानं नाम तृतीयोपदेशः