हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 149, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १३१ ‘ त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिरुध्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोताꣳसि सर्वाणि भयावहानि ॥ ’ इति । (Śve. Up., II. 8) ‘ओमित्येवं ध्यायथ आत्मानम्’ (Muṇ. Up., II. 2. 6) इत्याद्याः श्रुतयः । यतिधर्मप्रकरणे मनुः— ‘ भूतभाव्यानवेक्षेत योगेन परमात्मनः । देहद्वयं विहायाशु मुक्तो भवति बन्धनात् ॥ ’ याज्ञवल्क्यस्मृतौ—(I. 1. 8) ‘ इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ ’ महर्षिमातङ्गः— ‘ अग्निष्टोमादिकान् सर्वान् विहाय द्विजसत्तमः । योगाभ्यासरतः शान्तः परं ब्रह्माधिगच्छति ॥ ’ ‘ ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणां च पावनम् । शान्तये कर्मणामन्यद् योगान्नास्ति विमुक्तये ॥ ’ दक्षस्मृतौ व्यतिरेकमुखेनोक्तम्— ‘ स्वसंवेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ ’ (VII. 25) इत्याद्याः स्मृतयः । महाभारते योगमार्गप्रसङ्गे व्यासः— ‘ अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ (XII. 246. 34)