हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 152, कुल 307 में से
संदर्भ में पढ़ें१३४ \qquad\qquad\qquad\qquad हठयोगप्रदीपिका तस्य सुनिरूपत्वात् । यथा हि घटादौ चक्षुःसंनिकर्षेणान्तःकरणवृत्तिदशायां तद- धिष्ठानचैतन्याज्ञाननिवृत्तौ तच्चैतन्यस्याज्ञानाविषयत्वं तद्धटस्थाज्ञानाविषयचैतन्य- तादात्म्यापन्नत्वं चापरोक्षत्वम् । तथा तत्त्वमस्यादिवाक्येन शुद्धचैतन्याकारान्तः- करणवृत्त्युत्थापने सति तदज्ञानस्य निवृत्तत्वेनैव चैतन्यस्याज्ञानाविषयत्वाच्चैतन्य- स्यापरोक्षत्वमिति न हेत्वसिद्धिः । न चाप्रयोजकत्वम् , ज्ञानगतापरोक्षत्वं प्रत्यपरोक्ष- विषयकत्वेन प्रयोजकत्वात् । नत्विन्द्रियजन्यत्वं, मनस इन्द्रियत्वाभावेन सुखादि- प्रत्यक्षे व्यभिचारात् । अथवाभिव्यक्तचैतन्याभिन्नतया भासमानत्वं विषयस्याप- रोक्षत्वम् । अभिव्यक्तत्वं च निवृत्तावरणकत्वं परोक्षवृत्तिस्थले चावरणनिवृत्त्य- भावान्नातिव्याप्तिः । सर्पादिभ्रमजनकदोषवतस्तु नायं सर्पः किंतु रज्जुरिति वाक्येन नायमाना वृत्तिस्तु नावरणं निवर्तयतीति तत्र परोक्ष एव विषयः । वेदान्तवाक्यजन्यं च ज्ञानमावरणनिवर्तकत्वादपरोक्षमेव । मननादेः पूर्वमुत्पन्नं ज्ञानमज्ञानानिवर्त- कम् । प्रमाणसंभावनादिदोषसामान्याभावविशिष्टस्यैव तस्याज्ञाननिवर्तकत्वात् । किंच ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (Bṛh. Up., III. 9. 26) इति श्रुति- प्रतिपन्नमुपनिषन्मात्रगम्यत्वं योगगम्यत्वे नोपपन्नं स्यात् । तस्मात् तत्त्वमस्यादि- वाक्यादेवापरोक्षमिति चेन्न । अनुमानस्याप्रयोजकत्वात् । नच प्रत्यक्षं प्रति निरुक्तापरोक्षविषयकत्वेन प्रयोजकात् तन्मूलकतर्केणाप्रयोजकशङ्कानिवृत्तिरिति वाच्यम् । लाघवाज्जन्यप्रत्यक्षसामान्यं प्रति इन्द्रियत्वेन कारणतया तज्जन्यस्यैव प्रयोजकत्वात् । नित्यानित्यसाधारणप्रत्यक्षत्वे तु न किंचित्प्रयोजकमिति । तन्मते तु प्रत्यक्षविशेषे इन्द्रियं कारणं तद्विशेषे च शब्दविशेष इति कार्यकारणभावद्वयं स्यात् । न च मनसोऽनिन्द्रियत्वं मनस इन्द्रियत्वे बाधकाभावात् ‘इन्द्रियाणां मनो नाथः’ (IV. 29) इति तु, मनुष्यमेवोद्दिश्य मनुष्याणामयं राजेत्यादिवदि- न्द्रियेष्वेव किंचिदुत्कर्षं ब्रवीति । न तु तस्यानिन्द्रियत्वं तत्त्वं च षट्सुस्व- खण्डोपाधिविशेष एव । अत एव ‘कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्’ इति (AK., I. 5. 8) ‘प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्’