हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 156, कुल 307 में से
संदर्भ में पढ़ें१३८ हठयोगप्रदीपिका तामेव योनिं जीवः प्राप्नोतीति योगहीनस्य जन्मान्तरं स्यादेव मरणसमये समुद्भूतवैक्लव्यस्यायोगिना वारयितुमशक्यत्वात् । तदुक्तं योगबीजे— ‘ देहावसानसमये चित्ते यद्यद् विभावयेत् । तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥ देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः । तस्माज्ज्ञानं च वैराग्यं जपश्च केवलं श्रमः ॥ पिपीलिका यदा लग्ना देहे ज्ञानाद् विमुच्यते । असौ किं वृश्चिकैर्दष्टो देहान्ते वा कथं सुखी ॥’ इति । योगिनां तु योगबलेनान्तकालेऽप्यात्मभावनया मोक्ष एवेति न स्याज्जन्मान्तरम् । तदुक्तं भगवता । ‘ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ’ (BG., VIII. 10) इत्यादिना । ‘शतं चैका च हृदयस्य नाड्यः’ (Chā. Up., VIII. 6. 6) इत्यादि श्रुतेश्च । न च तत्त्वमस्यादिवाक्यस्या- परोक्षज्ञानाजनकत्वे तद्विचारस्य वैयर्थ्यमेवेति शङ्क्यम् । वाक्यविचारजन्यज्ञा- नस्य योगद्वारापरोक्षज्ञानसाधनत्वात् । अत्र च योगबीजे गौरीश्वरसंवादो महानस्ति, ततःकिंचिल्लिख्यते । देव्युवाच— ‘ ज्ञानिनस्तु मृता ये वै तेषां भवति कीदृशी । गतिः कथय देवेश कारुण्यामृतवारिधे ॥’ ईश्वर उवाच— ‘ देहान्ते ज्ञानिना पुण्यात् पापात् तत्फलमाप्यते । यादृशं तु भवेत् तत्तद् भुक्त्वा ज्ञानी पुनर्भवेत् ॥