हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 164, कुल 307 में से
संदर्भ में पढ़ें१४६ हठयोगप्रदीपिका रसस्येति । रसस्य पारदस्य मनसो मानसस्य स्वभावतः स्वभावचञ्चलत्वं चाञ्चल्यमस्ति । रसः पारदो बद्धश्चेन्मनश्चित्तं बद्धं भवति । ततो भूतले पृथिवीतले किं न सिद्धयति ? सर्वं सिद्ध्यतीत्यर्थः ॥ २६ ॥ मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ २७ ॥ तदेवाह—मूर्च्छित इति । ओषधिविशेषयोगेन गतचापलो रसो मूर्च्छितः । कुम्भकान्ते रेचकनिवृत्तौ वायुर्मूच्छित इत्युच्यते । हे पार्वतीति पार्वतीं संबोध्येश्वरवाक्यम् । मूर्च्छितो रसः पारदः, वायुः प्राणश्च व्याधीन् रोगान् हरते नाशयति । भस्मीभूतो रसः, ब्रह्मरन्ध्रे लीनो वायुश्च मृतः स्वयमात्मना स्वसामर्थ्ये- नेत्यर्थः । जीवयति दीर्घकालं जीवनं करोति । क्रियाविशेषेण गुटिकाकारकृतो रसो बद्धः, भ्रूमध्यादौ धारणाविशेषेण धृतो वायुश्च बद्धः, खेचरतामाकाशगतिं धत्ते विधत्ते करोतीत्यर्थः । तदुक्तं गोरक्षकशतके (72)— ‘यद्भिन्नाञ्जनपुञ्जसंनिभमिदं वृत्तं भ्रुवोरन्तरे तत्त्वं वायुमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विलाप्य पञ्चघटिकं चित्तान्वितं धारये- देशा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥’ इति ॥ २७ ॥ मनः स्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दुस्थैर्यात् सदा सत्त्वं पिण्डस्थैर्यं प्रजायते ॥ २८ ॥