हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 166, कुल 307 में से
संदर्भ में पढ़ें१४८ हठयोगप्रदीपिका करणक्रिया यस्मिन् एतादृशो योगिनां लयोऽन्तःकरणवृत्तेर्ध्येयाकारापत्तिर्जयति सर्वोत्कर्षेण वर्तते ॥ ३१ ॥ उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि जायते वागगोचरः ॥ ३२ ॥ उच्छिन्नेति । उच्छिन्ना नष्टाः सर्वे संकल्पा मनःपरिणामा यस्मिन् स तथा निर्गतः शेषो येभ्यस्तानि निःशेषाण्यशेषाणि चेष्टितानि यस्मिन् स तथा स्वेनैवावगन्तुं बोद्धुं शक्यः स्वावगम्यः वाचामगोचरो विषयः कोऽपि विलक्षणो लयः जायते योगिनां प्रादुर्भवति ॥ ३२ ॥ यत्र दृष्टिर्लयस्तत्र भूतेन्द्रियसनातनी । सा शक्तिर्जीवभूतानां द्वे अलक्ष्ये लयं गते ॥ ३३ ॥ यत्र दृष्टिरिति । यत्र यस्मिन् विषये ब्रह्मणि दृष्टिरन्तःकरणवृत्तिस्तत्रैव लयो भवति । भूतानि पृथिव्यादीनि इन्द्रियाणि श्रोत्रादीनि सनातनानि शाश्वतानि यस्यां सा सत्कार्यवादेऽविद्यायां कार्यजातस्य सत्त्वात् । जीवभूतानां प्राणिनां शक्तिरविद्या इमे द्वे अलक्ष्ये ब्रह्मणि लयं गते योगिनामिति शेषः ॥ ३३ ॥ लयो लय इति प्राहुः कीदृशं लयलक्षणम् । अपुनर्वासनोत्थानाल्लयो विषयविस्मृतिः ॥ ३४ ॥ लय इति । लयो लय इति प्राहुर्वदन्ति बहवः । लयस्य लक्षणं लयस्व- रूपं कीदृशमिति प्रश्नपूर्वकं लयस्वरूपमाह—अपुनरिति । अपुनर्वासनोत्थानात् पुनर्वासनोत्थानाभावाद् विषयविस्मृतिर्विषयाणां शब्दादीनां ध्येयाकारस्य विषयस्य वा विस्मृतिर्लयो लयशब्दार्थ इत्यर्थः ॥ ३४ ॥