हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 192, कुल 307 में से
संदर्भ में पढ़ें१७४ हठयोगप्रदीपिका ‘ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥’ इति विष्णुपुराणोक्तलक्षणः (VI. 7. 92) ‘ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः’ (III. 3) इति पातञ्जलसूत्रोक्तलक्षणश्च संप्रज्ञातलक्षणः समाधि- रुक्तः ॥ ९७ ॥ काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ ९८ ॥ काष्ठ इति । काष्ठे दारुणि प्रवर्तितः प्रज्वालितो वह्निः काष्ठेन सह शाम्यति ज्वालारूपं परित्यज्य तन्मात्ररूपेणावतिष्ठते यथा तथा नादे प्रवर्तितं चित्तं नादेन सह लीयते । राजसतामसवृत्तिनाशात् सत्त्वमात्रावशेषं संस्कारशेषं च भवति । तत्र च मैत्रायणीयमन्त्रः (VI. 1)— ‘यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥’ इति ॥ ९८ ॥ घण्टादिनादसक्तस्तब्धान्तःकरणहरिणस्य । प्रहरणमपि सुकरं स्याच्छरसंधानप्रवीणश्चेत् ॥ ९९ ॥ घण्टादीति । घण्टा आदिर्येषां शङ्खमर्द्दलझर्झरदुन्दुभिजीमूतादीनां ते घण्टादयस्तेषां नादास्तेषु सक्तः । अत एव स्तब्धो निश्चलो योऽन्तःकरणमेव हरिणो मृगस्तस्य प्रहरणं नानावृत्तिप्रतिबन्धनमन्तःकरणपक्षे । हरिणपक्षे तु प्रहरणं हननमपि शरवद् द्रुतगामिनो वायोः संधानं सुषुम्नामार्गेण ब्रह्मरन्ध्रे निरोधनम् , पक्षे शरस्य बाणस्य संधानं धनुषि योजनं तस्मिन् प्रवीणः कुशलश्चेत् सुकरं सुखेन कर्तुं शक्यं स्यात् ॥ ९९ ॥