हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 194, कुल 307 में से
संदर्भ में पढ़ें१७६ हठयोगप्रदीपिका ‘काष्ठे प्रवर्तितो वह्निः’ (IV. 98) इत्यादिभिः श्लोकैः राजयोगापरपर्यायो- ऽसंप्रज्ञातः समाधिरुक्तः ॥ १०२ ॥ सर्वे हठलयोपाया राजयोगस्य सिद्धये । राजयोगसमारूढः पुरुषः कालवञ्चकः ॥ १०३ ॥ सर्व इति । हठश्च लयश्च हठलयौ तयोरुपाया हठलयोपाया हठोपाया आसनकुम्भकमुद्रारूपा लयोपाया नादानुसंधानशांभवीमुद्रादयः । राजयोगस्य मनसः सर्ववृत्तिनिरोधलक्षणस्य सिद्धये निष्पत्तये प्रोक्ता इति शेषः । राजयोगं समारूढः सम्यगारूढः प्राप्तवान् यः पुरुषः स कालवञ्चकः कालं मृत्युं वञ्चयति जयतीति तादृशः स्यादिति शेषः ॥ १०३ ॥ तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः । उन्मनी कल्पलतिका सद्य एव प्रवर्तते ॥ १०४ ॥ तत्त्वमिति । तत्त्वं चित्तं बीजं बीजवदुन्मन्यवस्थाङ्कुराकारेण परिणम- मानत्वात् । हठः प्राणापानयोरैक्यलक्षणः प्राणायामः क्षेत्रं क्षेत्र इव प्राणायामे उन्मनीकल्पलतिकोत्पत्तेः औदासीन्यं परवैराग्यं जलं तस्या उत्पत्तिकारणत्वात् । ‘परवैराग्यहेतुकः संस्कारविशेषश्चित्तस्यासंप्रज्ञातः’ इति तल्लक्षणात् । एतैस्त्रिभि- रुन्मन्यसंप्रज्ञातावस्था सैव कल्पलतिका सकलेष्टसाधनत्वात् सद्य एव शीघ्रमेव प्रवर्तते प्रवृत्ता भवति उत्पन्ना भवति ॥ १०४ ॥ सदा नादानुसंधानात् क्षीयन्ते पापसंचयाः । निरञ्जने विलीयेते निश्चितं चित्तमारुतौ ॥ १०५ ॥ सदेति । सदा सर्वदा नादानुसंधानान्नादानुचिन्तनात् पापसंचयाः पापसमूहाः क्षीयन्ते नश्यन्ति । निरञ्जने निर्गुणे चैतन्ये निश्चितं ध्रुवं चित्तमारुतौ मनःप्राणौ विलीयेते विलीनौ भवतः ॥ १०५ ॥