हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 31, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १३ 'मरुज्जयो यस्य सिद्धस्तं सेवेत गुरुं सदा । गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः ॥' राजयोगे— 'वेदान्ततर्कोक्तिभिरागमैश्च नानाविधैः शास्त्रकदम्बकैश्च । ध्यानादिभिः सत्करणैर्न गम्यश्चिन्तामणिर्ह्येकगुरुं विहाय ॥' स्कन्दपुराणे— 'आचार्ययोगसर्वस्वमवाप्य स्थिरधीः स्वयं । यथोक्तं लभते तेन प्राप्नोत्यपि च निर्वृतिम् ॥' सुरेश्वराचार्यः— 'गुरुप्रसादाल्लभते योगमष्टाङ्गसंयुतम् । शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीम् ॥' श्रुतिश्च— 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति। (Śv. Up., VI. 23) 'आचार्यवान् पुरुषो वेद' इति च (Ch. Up., VI. 14. 2) ॥ १४ ॥ अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १५ ॥ अथ योगाभ्यासप्रतिबन्धकानाह—अत्याहार इति । अतिशयित आहारोऽत्याहारः, क्षुधापेक्षयाधिकभोजनम् । प्रयासः श्रमजननानुकूलो व्यापारः । प्रकृष्टो जल्पः प्रजल्पो बहुभाषणम् । शीतोदकेन प्रातःस्नाननक्तभोजनफलाहारादि- रूपनियमस्य ग्रहणं नियमाग्रहः । जनानां सङ्गो जनसङ्गः । कामादिजनकत्वात् ।