हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 37, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १९ अथ तत्फलम्—इतीति । इति पूर्वोक्तमासनेष्वग्र्यं मुख्यं पश्चिमतानं पवनं प्राणं पश्चिमवाहिनं पश्चिमेन पश्चिममार्गेण सुषुम्नामार्गेण वहतीति पश्चिमवाही तं तादृशं करोति । जठरानलस्य जठरे योऽनलोऽग्निस्तस्योदयं वृद्धिं कुर्यात् । उदरे मध्यप्रदेशे कार्श्यं कृशत्वं कुर्यात् । आरोगतामारोग्यं चकारान्नाडीवलनादि- साम्यं कुर्यात् ॥ २९ ॥ धरामवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खे मायूरमेतत् प्रवदन्ति पीठम् ॥३०॥ अथ मयूरासनमाह—धरामिति । करद्वयेन करयोर्द्वयं युग्मं तेन धरां भूमिं अवष्टभ्यावलम्ब्य प्रसारिताङ्गुली भूमिसंलग्नतलौ संनिहितौ करौ कृत्वेत्यर्थः । तस्य करद्वयस्य कूर्परयोर्भुजमध्यसंधिभागयोः स्थापिते धृते नाभेः पार्श्वे पार्श्व- भागौ येन स उच्चासन. उच्चमुन्नतमासनं यस्यैतादृशः खे शून्ये दण्डवद् दण्डेन तुल्यमुत्थित ऊर्ध्वं स्थितो यत्र भवति, तन्मायूरं मयूरस्येदं तत्संबन्धित्वात् तन्नामकं प्रवदन्ति योगिन इति शेषः ॥ ३० ॥ हरति सकलरोगानाशु गुल्मोदरादी- नभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत् कालकूटम् ॥ ३१ ॥ मयूरासनगुणानाह—हरतीति । गुल्मो रोगविशेषः उदरं जलोदरं ते आदी येषां प्लीहादीनां ते तथा तान् सकलरोगान् सकला ये रोगास्तानाशु झटिति हरति नाशयति । श्रीमयूरासनमिति सर्वत्र संबध्यते । दोषान् वातपित्तकफा- नालस्यदांश्चाभिभवति तिरस्करोति । बहुतिशयितं कदशनं कदन्नं यद्भुक्तं तदशेषं