हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 40, कुल 307 में से
संदर्भ में पढ़ें२२ हठयोगप्रदीपिका मतान्तरे तु— मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ॥ ३६ ॥ मत्स्येन्द्रसंमतं सिद्धासनमुक्तवान्यसंमतं वक्तुमाह—मतान्तरे त्विति । तदेव दर्शयति—मेण्ढ्रादिति । मेण्ढ्रादुपस्थादुपर्यूर्ध्वभागे सव्यं वामगुल्फं विन्यस्य तथा सव्यवदुपरि मुख्यपादस्योपरि न तु सव्यगुल्फस्य । गुल्फान्तरं दक्षिणगुल्फं च निक्षिप्य वसेदिति शेषः । इदं सिद्धासनं मतान्तराभिमतं भवे- दित्यर्थः ॥ ३६ ॥ एतत् सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ ३७ ॥ तत्र प्रथमं महासिद्धसंमतमिति स्पष्टीकर्तुमस्यैव मतभेदान्नामभेदानाह— एतदिति । एतत् पूर्वोक्तं सिद्धासनं सिद्धासननामकं प्राहुः । केचिदित्यध्याहारः । अन्ये वज्रासनं वज्रासनसंज्ञकं विदुः जानन्ति । एके मुक्तासनं मुक्तासनाभिधं वदन्ति । परे गुप्तासनं गुप्तासनाख्यं प्राहुः । अत्रासनाभिज्ञाः । यत्र वामपादपार्ष्णिं योनिस्थाने नियोज्य दक्षिणपादपार्ष्णिंमेण्ढ्रादुपरि स्थाप्यते तत् सिद्धासनम् । यत्र दक्षिणपादपार्ष्णिं योनिस्थाने नियोज्य वामपादपार्ष्णिंमेण्ढ्रादु- परि स्थाप्यते तद्वज्रासनम् । यत्र तु दक्षिणसव्यपादपार्ष्णिद्वयमुपर्यधोभागेन संयोज्य योनिस्थानेन संयोज्यते तन्मुक्तासनम् । यत्र च पूर्ववत् संयुक्तं पार्ष्णिद्वयं मेण्ढ्रादुपरि निधीयते तद्गुप्तासनमिति ॥ ३७ ॥ यमेष्विव मिताहारमहिंसां नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ ३८ ॥