हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 42, कुल 307 में से
संदर्भ में पढ़ें२४ हठयोगप्रदीपिका उन्मन्यवस्था । सा कलेवाहादकत्वाच्चन्द्रलेखेव निरायासादनायासात् स्वय- मेवोत्पद्यत उदेति ॥ ४१ ॥ तथैकस्मिन्नेव दृढे बद्धे सिद्धासने सति । बन्धत्रयमनायासात् स्वयमेवोपजायते ॥ ४२ ॥ तथेति । तथोक्तप्रकारेणैकस्मिन्नेव सिद्धासने दृढे बद्धे सति बन्धत्रयं मूल- बन्धोड्डीयानबन्धजालंधरबन्धरूपमनायासात् ‘पार्ष्णिभागेन संपीड्य योनिमाकुञ्च- येद् गुदम्’ (III. 61) इत्यादिवक्ष्यमाणमूलबन्धादिष्वायासं विनैव स्वयमे- वोपजायते स्वत एवोत्पद्यत इत्यर्थः ॥ ४२ ॥ नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ४३ ॥ नासनमिति । सिद्धेन सिद्धासनेन सदृशमासनं नास्तीति शेषः । केवलेन केवलकुम्भकेनोपमीयत इति केवलोपमः कुम्भः कुम्भको नास्ति । खेचरीमुद्रासमा मुद्रा नास्ति । नादसदृशो लयो लयहेतुर्नास्ति ॥ ४३ ॥ अथ पद्मासनम्— वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये- देतद् व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ ४४ ॥ अथासनं वक्तुमुपक्रमते—अथेति । पद्मासनमाह—वामोरूपरीति । वामो य ऊरुस्तस्योपरि दक्षिणम् । चकारः पादपूरणे । संस्थाप्य सम्यगुत्तानं स्थापयित्वा वामं सव्यं चरणं तथा दक्षिणचरणवद् दक्षो दक्षिणो य ऊरुस्तस्योपरि