हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 58, कुल 307 में से
संदर्भ में पढ़ें४० हठयोगप्रदीपिका भ्रमणस्वेदजलपाद्यं संविन्मूर्च्छा जयेद् यदा । तदोत्तम इति प्रोक्तः प्राणायामः सुशोभनः ॥' इति । घूर्णिborder? no: घूर्णिश्चित्तान्दोलनम् । गोरक्षोऽपि— ‘ अधमे द्वादश प्रोक्ता मध्यमे द्विगुणाः स्मृताः । उत्तमे त्रिगुणा मात्राः प्राणायामे द्विजोत्तमैः ॥’ उद्घातलक्षणं तु— ‘ प्राणेनोत्सार्यमाणेण अपानः पीड्यते यदा । गत्वा चोर्ध्वं निवर्तेत एतदुद्घातलक्षणम् ॥’ मात्रामाह याज्ञवल्क्यः— ‘अङ्गुष्ठाङ्गुलिमोक्षं त्रिस्त्रिर्जानुपरिमार्जनम् । तालत्रयमपि प्राज्ञा मात्रासंज्ञां प्रचक्षते ॥’ स्कन्दपुराणे—‘एकश्वासमयी मात्रा प्राणायामो निगद्यते’ । एतद्व्या- ख्यातं योगचिन्तामणौ । ‘निद्रावशंगतस्य पुंसो यावता कालेनेकः श्वासो गच्छ- त्यागच्छति च तावत्कालः प्राणायामस्य मात्रेत्युच्यते’ इति । अर्धश्वासाधिकद्वाद- शश्वासावच्छिन्नः कालः प्राणायामकालः । षड्भिः श्वासैरेकं पलं भवति । एवं च सार्धश्वासपलद्वयात्मकः कालः प्राणायमकालः सिद्धः । सार्धद्वादशमात्रामितः प्राणायामो यः स एवोत्तमः प्राणायाम इत्युच्यते । न च पूर्वोदाहृतलिङ्गपुराणगोरक्ष- वाक्यविरोधः, तत्र द्वादशमात्रकस्य प्राणायामस्याधमत्वोक्तेरिति शङ्कनीयम् । ‘जानुं प्रदक्षिणीकुर्यान्न द्रुतं न विलम्बितम् । प्रदद्याच्छोटिकां यावत् तावन्मात्रेति गीयते ॥’ इति स्कन्दपुराणात् ।