भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 60, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 60

४२ हठयोगप्रदीपिका मात्रात्वविवक्षया द्वादशमात्रकः कालः। किंचिदूनचतुरशीतिविपलात्मको मध्यम- प्राणायामकालः। अयमेकच्छोटिकावच्छिन्नस्य कालस्य मात्रात्वविवक्षया चतुर्विं- शतिमात्रकः। पञ्चविंशत्युत्तरशतविपलात्मक उत्तमः प्राणायामकालः। अयमेक- च्छोटिकावच्छिन्नस्य कालस्य मात्रात्वविवक्षया षट्त्रिंशन्मात्रकः कालः। छोटि- कात्रायावच्छिन्नस्य कालस्य मात्रात्वविवक्षया तु द्वादशमात्रक एव। बन्धपूर्वकं पञ्चविंशत्युत्तरशतविपलपर्यन्तं यदा प्राणायामस्थैर्यं भवति तदा प्राणो ब्रह्मरन्ध्रं गच्छति। ब्रह्मरन्ध्रं गतः प्राणो यदा पञ्चविंशतिपलपर्यन्तं तिष्ठति तदा प्रत्याहारः। यदा पञ्चघटिकापर्यन्तं तिष्ठति तदा धारणा। यदा षष्टिघटिकापर्यन्तं तिष्ठति तदा ध्यानम्। यदा द्वादशदिनपर्यन्तं तिष्ठति तदा समाधिर्भवतीति सर्वं रमणीयम्॥ १२॥ जलेन श्रमजातेन गात्रमर्दनमाचरेत्। दृढता लघुता चैव तेन गात्रस्य जायते॥ १३॥ प्राणायामानभ्यस्यतः स्वेदे जाते विशेषमाह—जलेनेति। श्रमात् प्राणायामाभ्यासश्रमाज्जातं तेन जलेन प्रस्वेदेन गात्रस्य शरीरस्य मर्दनं तैलाभ्यङ्गवदाचरेत् कुर्यात्। तेन मर्दनेन गात्रस्य दृढता दार्ढ्यं लघुता जाड्याभावो जायते प्रादुर्भवति॥ १३॥ अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम्। ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः॥ १४॥ अथ प्रथमोत्तराभ्यासयोः क्षीरादिनियमानाह—अभ्यासकाल इति। क्षीरं दुग्धमाज्यं घृतं तद्युक्तं भोजनं क्षीराज्यभोजनम्। शाकपार्थिवादिवत् समासः। केवले कुम्भके सिद्धेऽभ्यासो दृढो भवति। स्पष्टमन्यत्॥ १४॥