भारतकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 69, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 69

हठयोगप्रदीपिका ५१ पूरकौ कपालभातिरिति विख्याता । कीदृशी ? कफदोषविशोषणी । कफस्य दोषा विंशतिभेदभिन्नाः । तदुक्तं निदाने—‘कफरोगाश्च विंशतिः' इति । तेषां विशोषणी विनाशनी ॥ ३५ ॥ षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ ३६ ॥ षट्कर्मणां प्राणायामोपकारकत्वमाह—षट्कर्मेति । षट्कर्मभिर्धौति- प्रभृतिभिर्निर्गताः स्थौल्यं स्थूलस्य भावः स्थूलत्वम् । कफदोषा विंशतिसंख्याकाः, मलादयश्च यस्य स तथा । ‘शेषाद्विभाषा’ (Pāṇ., V. 4. 154) इति कप्रत्ययः । आदिशब्देन पित्तादयः । प्राणायामं कुर्यात् । ततस्तस्मात् षट्कर्म- पूर्वकात् प्राणायामादनायासेनाश्रमेण सिद्ध्यति योग इति शेषः । षट्कर्माकरणे तु प्राणायामे श्रमाधिक्यं स्यादिति भावः ॥ ३६ ॥ प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत् कर्म न संमतम् ॥ ३७ ॥ मतभेदेन षट्कर्मणामनुपयोगमाह—प्राणायामैरिति । प्राणायामैरेव । एवशब्दः षट्कर्मव्यवच्छेदार्थः । सर्वे मलाः प्रशुष्यन्ति । मला इत्युपलक्षणं स्थौल्यकफपित्तादीनाम्, इति हेतोः केषांचिदाचार्याणां याज्ञवल्क्यादीनामन्यत् कर्म षट्कर्म न संमतं नाभिमतम् । आचार्यलक्षणमुक्तं वायुपुराणे— ‘आचिनोति च शास्त्रार्थमाचारे स्थापयेदपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥’ इति ॥ ३७ ॥

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक) · पृष्ठ 69, कुल 307 में से · BharatKosha