हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 78, कुल 307 में से
संदर्भ में पढ़ें६० हठयोगप्रदीपिका बुध्यारम्भ एव । बह्वभ्यासासक्तपरत्वात् क्रमेणारण्यहस्तिवदिति दृष्टान्तस्वार- स्याच्च । अतएव सूर्याचन्द्रमसोरभ्यासे ‘धारयित्वा यथाशक्ति’ (III. 21) निधारयेदिति निरोधत इति चोक्तं संगच्छते । तस्मात् कुम्भकस्त्वतिप्रयत्नपूर्वकं कर्तव्यः । यथा यथातियत्नेन कुम्भकः क्रियते तथा तथा तस्मिन् गुणाधिक्यं भवेत् । यथा यथा च शिथिलः कुम्भकः स्यात् तथा तथा गुणालपत्वं स्यात् । अत्र योगिनामनुभवोऽपि मानम् । पूरकस्तु शनैः शनैः कार्यः, वेगाद्वा कर्तव्यः । वेगादपि कृते पूरके दोषाभावात् । रेचकस्तु शनैः शनैरेव कर्तव्यः । वेगात्कृते रेचके बलहानिप्रसङ्गात् । ततः शनैःशनैरेव रेचयेन्न तु वेगतः इत्याद्यनेकधा ग्रन्थकारोक्तेश्च । ततो निरोधावधि कुम्भकानन्तरं शनैश्शनैर्मन्दं मन्दं सव्ये वामभागे स्थिता नाडी सव्यनाडी तया सव्यनाड्या इडया पवनं वायुं रेचयेद् बहिर्निः- सारयेत् । पुनः शनैरित्युक्तिस्तु शनैरेव रेचयेदित्यवधारणार्था । तदुक्तम्— ‘ विस्मये च विषादे च दैन्ये चैवावधारणे । तथा प्रसादने हर्षे वाक्यमेकं द्विरुच्यते ॥ ४९ ॥’ इति । कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥ ५० ॥ कपालशोधनमिति । कपालस्य मस्तकस्य शोधनं शुद्धिकरं वातजा दोषा वातदोषा अशीतिप्रकारास्तान् हन्तीति वातदोषघ्नं कृमीणामुदरे जातानां दोषो विकारस्तं हरतीति कृमिदोषहृत् । पुनःपुनर्भूयोभूयः कार्यम् । सूर्ये- णापूर्य कुम्भयित्वा चन्द्रेण रेचनमिति रीत्येदमुत्तममुत्कृष्टं सूर्यभेदनं सूर्यभेद- नाख्यमुक्तं योगिभिरिति शेषः ॥ ५० ॥ अथोज्जायी— मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ।