हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 83, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका ६५ कर्मणि तत् हृत्पद्मावधि, वेगेन तरसा, मारुतं वायुं पूरयेत् । चापीति पादपूरणार्थम् ॥ ६१ ॥ पुनर्विरिचयेत् तद्वत् पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ ६२ ॥ पुनरिति—तद्वत् पूर्ववत् पुनर्विरिचयेत , पुनः पुनः पूरयेत् चेत्यन्वयः । उक्तेऽर्थे दृष्टान्तमाह—यथैवेति । लोहकारेण लोहविकाराणां कर्त्रा भस्त्रा अग्नेर्धमनसाधनीभूतं चर्म यथैव येन प्रकारेण वेगेन चाल्यते ॥ ६२ ॥ तथैव स्वशरीरस्थं चालयेत् पवनं धिया । यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत् ॥ ६३ ॥ यथोदरं भवेत् पूर्णमनिलेन तथा लघु । धारयेन्नासिकां मध्यात्तर्जनीभ्यां विना दृढम् ॥ ६४ ॥ तथैव तेनैव प्रकारेण स्वशरीरस्थं स्वशरीरे स्थितं पवनं प्राणं धिया बुद्ध्या चालयेत् । रेचकपूरकयोर्निरन्तरावर्तनेन चालनस्यावधिमाह—यदा श्रम इति । यदा यस्मिन् काले देहे शरीरे श्रमो रेचकपूरकयोर्निरन्तरावर्तनेनायासो भवेत् तदा तस्मिन् काले । यथा येन प्रकारेण पवनेन वायुना, लघु क्षिप्रमेवोदरं पूर्णं भवेत् तथा तेन प्रकारेण सूर्यनाड्या पूरयेत् । ‘लघुक्षिप्रमरं द्रुतम्’ इत्यमरः (1. 1. 66) ॥ पूरकानन्तरं यत् कर्तव्यं तदाह—धारयेदिति । मध्यात्तर्जनीभ्यां मध्य- मातर्जनीभ्यां विना अङ्गुष्ठानामिकाकनिष्ठिकाभिर्नासिकां दृढं धारयेत् । अङ्गुष्ठेन दक्षिणनासापुटं निरुध्यानामिकाकनिष्ठिकाभ्यां वामनासापुटं निरुध्य नासिकां दृढं गृह्णीयादित्यर्थः ॥ ६३-६४ ॥ 5