हितोपदेशः (हिन्दी अनुवाद सहित)
नारायण पण्डित द्वारा
स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)
पृष्ठ 284, कुल 302 में से
संदर्भ में पढ़ें२ (घ) द्वितीयप्रश्ने “यस्मिन्” इत्यत्र “स्थान एव” इत्यत्र च कथं का विभक्तिः ? (ङ) अधोलिखितपदेषु त्रीणि सूत्राण्युल्लिख्य साध्यन्ताम्— निहितः; शुश्राव; कुरुते; असौ; म्रियते । प्रथमपरीक्षा १९४८ १. अधोलिखितेषु सन्दर्भेषु त्रयाणामनुवादो मातृभाषया कार्यः— (१) ततो दिनेषु गच्छत्सु स पक्षिशावकान् आक्रम्य स्वकोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि तैः शोकार्तैर्विलपद्भिः इत- स्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः । (२) अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तत्प्रदेशं गच्छन् काकेनावलोकि- तः । तमालोक्य काकेनोक्तम्—“सखे मृग ! तमात्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ, अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि । यदाहं शब्दं करिष्यामि तदा त्वमुत्थाय सत्वरं पलायिष्यसे ।” (३) अथ कदाचिदवसन्नायां रात्रावस्ताचलचूडावलम्बिनि भगवति कुमु- दिनीनायके चन्द्रमसि, लघुपतनकनामा वायसः प्रबुद्धः कृतान्तमिव द्वितीय- मटन्तं व्याधमपश्यत् । तमवलोक्याचिन्तयत्—“अद्य प्रातरेवानिष्टदर्शनं जातं, न जाने किमनभिमतं दर्शयिष्यति” इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलितः । (४) ततो हिरण्यकश्च सर्वदापायशङ्कया शतद्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपातभयाच्चकितस्तूष्णीं स्थितः । चित्रग्रीव उवाच—“सखे हिरण्यक ! कथमस्मान् न सम्भाषसे ?” । ततो हिरण्यकस्तद् वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर्निःसृत्याब्रवीत्—आः ! पुण्यवानस्मि, प्रियसुहृन्मे चित्रग्रीवः समायातः । २. शोकस्थानसहस्त्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १ ॥ शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ २ ॥