जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 13, कुल 588 में से
संदर्भ में पढ़ेंयनाध्यापनं तदनुमतं ग्रहादिवेधोपकरणीभूतयन्त्रादीनां निर्माणं तदुपयोगश्च प्रतिविद्यालयं, प्रतिच्छात्रं, प्रत्यध्यापकञ्चावश्यकतया प्रतीयते। किमेतज्जगजनोपकृतिकार्ये शिक्षाधिकारि- जनैरध्यापकैरध्येतृभिश्च सङ्कुचिताऽपि दृष्टिर्दास्यते ? । अथ प्रकृतमनुसरामः—होरास्कन्धे पौरुषग्रन्थेषु सर्वप्रथमं(१) बृहज्जातकस्याविर्भावः। अयञ्च ग्रन्थः प्राचीनार्यहोराग्रन्थसारभूतस्तत्सम्मतश्चाधुनिकसकलपौरुषग्रन्थानां मूलभूतो गण्यते। अस्य ग्रन्थरत्नस्याविर्भावकस्तत्रभवान् वराहमिहिरस्तथाहि तदुक्तम्— आदित्यदासतनयस्तदवाप्तबोधः काम्पिल्यके सवितृलब्धवरप्रसादः। आवन्तित्को मुनिमतान्ववलोक्य धीमान् होरां वराहमिहिरो रुचिरां चकार ॥ इतः प्रभृतिराचार्यशब्देन वराहमिहिराचार्य (Vide Adh. 3, 51-80) होराशब्देनैत- स्यैव होरा (बृहज्जातकम्) उपयुज्यते। यथाऽस्मिन्नपि ग्रन्थे-आचार्यहोरायाम्, होरायाम् इत्युपयुक्तं दृश्यते । तथा चैतस्यैव ग्रन्थस्य सारभूतं लघुजातकाख्यं तत्कृतमेवातीव मनो- हरं जातकविदामुपकृत्यै विराजते। तस्यायमादिमः श्लोकः— होराशास्त्रं वृत्तं मया निबद्धं निरीक्ष्य शास्त्राणि। यत्तस्याप्यार्याभिः सारमहं सम्प्रवक्ष्यामि ॥ इति। इतः परं कियन्तो जातकविषयकग्रन्थाः कियद्भ्यो ग्रन्थेभ्यः प्राकरणिकवाक्यानि सङ्क- लय्य तत्तदाविर्भावकैराविष्कृताः। यथा च श्रीपतिपद्धतिः (By shripati) सारावली (By Kalyan Varma), सर्वार्थचिन्तामणिः (By Venktesha) जातकादेशः (By Gunakar), होरारत्नम्, (By Balabhadra) मानसागरी, जातकाभरणम्-जातकक- ल्पद्रुम, जातकपारिजातः, (By Vaidya Natha) फलदीपिका (By Mantreshwar) इत्यादयोऽनेके ग्रन्था विविधविषयभूषिताः समुपलभ्यन्ते । तेषु तावदयं जातकसम्बन्धि- कयावद्विषयोपयुक्तो जातकपारिजातः यतो नामानुरूपगुणोऽतोऽध्यापकैरध्येतृभिश्चाधुना प्राय- माद्रियते। एतद्ग्रन्थादौ— भारद्वाजकुलोद्भवस्य विदुषः श्रीवेङ्कटाद्रेरिह ज्योतिषशास्त्रविशारदस्य तनयः श्रीवैद्यनाथः सुधीः। होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये राशिस्थाननिरूपणादि सकलं वक्ष्ये यथानुक्रमम् ॥ इत्युक्तवचनेनायं ग्रन्थो भारद्वाजगोत्रोत्पन्न-श्रीवेङ्कटाद्रिदैवज्ञसुतश्रीवैद्यनाथदैवज्ञनि- र्शितः। अस्मिन् ग्रन्थे ग्रन्थकर्त्तुः समयस्यानिर्देशात्तदास्य निर्माणकालो वास्तवः क इति तारतम्याधीनः। अयं किल ग्रन्थकर्ता वेङ्कटाद्रिपुत्रः, वेङ्कटाद्रिरपि ज्योतिर्विदिति 'श्रीवेङ्क- टाद्रेरिह ज्योतिषशास्त्रविशारदस्ये'ति वैद्यनाथोक्तेन स्फुटम्। अतोऽनुमीयते यत् सर्वार्थ- चिन्तामणिकार एवायं वेङ्कटः। जातकपारिजाते बहुत्र सर्वार्थचिन्तामणिमूलश्लोकानां निवेशदर्शनादयमेव वेङ्कटो वैद्यनाथस्य पितेति तर्कः सङ्गच्छते। परञ्च सर्वार्थचिन्तामणावपि तत्समयस्यादर्शनात् वास्तवोऽस्य समयो न स्फुटः। परञ्च-ज्योतिःशास्त्रमहार्णवादुदहर- न्मोहूर्त्ततत्त्वं बहु-व्याप्यल्पं गुरुवैद्यनाथचरणद्वन्द्वेरतः केशवः' इति ग्रहलाघवकरणकर्त्तृ गणेश- दैवज्ञपितु-(केशव) कृतमुहूर्त्ततत्त्वोक्तवचनादयं वैद्यनाथो गणेशपितुः (केशवस्य) गुरु- रिति सिद्धयति। तत्र गणेशकृतग्रहलाघवरचनाकालो 'द्व्यब्धीन्द्रोन्मितशकः' इत्युक्तेन १४४२ शाकाब्दः। तदानीं केशवस्य वयो यदि ७० वर्षाणि कल्प्यन्ते तदा केशवस्य जन्मकालः १३७२ शाकाब्दः स्यात् । तदानीं वैद्यनाथस्यापि वयः २५ वर्षाणीति कल्पने न काचिदनुपप- त्तिरिरित तदा वैद्यनाथस्य ग्रन्थरचनाकालः १३४७ शकाब्दासन्नः सम्भाव्यते(२)। (१) वराहादपि पूर्वं सत्याचार्यौ जीवशर्मा च बृहज्जातके सत्याचार्यजीवशर्म-मतप्र- दर्शनात्, परञ्च सत्याचार्यजीवशर्मादिकृतेरनुपलब्धत्वाद्वराह एव गृह्यते लोकैरिति । (२) गणकतरङ्गिण्यां म० म० सुधाकरद्विवेदीभिः गणेशात्प्राचीनयोर्वेङ्कट-वैद्यनाथ- योरुल्लेखो नाकारीति किं कारणं तन्न जाने ।