भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 210, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 210

१८४ सटीकजातकपारिजाते- Notes-पूर्वोक्ता एते श्लोका बृहज्जातके सारावल्यां चाधानकालिकविचाराहीः, परञ्च तत्रैव 'जन्मन्वाधाने प्रश्नकाले वे'त्यपि दर्शनाज्जन्मकालेऽपि विचारणीया इति ॥ ५२ ॥ सिंह लग्नमें सूर्य और चन्द्र हों उन्हें मङ्गल और शनि देखते हों तो वह बालक नेत्र- रहित हो । यदि शुभग्रह पापग्रह दोनों देखते हों तो बुद्बुद नेत्र हो । व्ययमें चन्द्रमा हो तो वाम नेत्रकी हानि करे और सूर्य हो तो दक्षिण नेत्रकी हानि करे । अशुभ ग्रहोंके देखने से ये योग होते हैं। यहां शुभ ग्रहके देखनेसे उससे न्यून फल होता है ॥ ५२ ॥ शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के । रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्ने बुद्बुदाक्षः ॥ ५३ ॥ इदानीं रखेः स्थितिवशेन नेत्रविकारयोगा उच्यन्ते । अर्के=सूर्ये विलगने जन्मकाले गते सति जातः शूरः=सङ्ग्रामी, स्तब्धश्चिरकार्यकृत्, मध्यदृष्टिस्तर्यङ्नयनश्च भवेत् । एतत्किल सामान्येन लग्नगतसूर्यफलम् । मेष-सिंह-तुला-कर्कलग्नगतेऽर्के फले वैलक्षण्यं तदुच्यते । मेषे स्वोच्चे लग्ने गतेऽर्के रोगदृक्=नेत्ररोगी भवति । सिंहगेऽर्के=सिंहराशिगतलग्ने विलसति सूर्ये जातो रात्रावन्धो निशान्धो भवति । तौलिगे =तुलालग्ने (नीचे) गतेऽर्के जातो निर्धनी=दरिद्रो भवति । अर्के=सूर्ये कर्किणि लग्ने=कर्कराशिलग्ने गतवति जातो बुद्बु- दाक्षः = पुष्पिताक्षो भवति । उक्तमपि बृहज्जातके- "शूरस्तब्धो विफलन्नयनो निर्घृणोऽर्के तनुस्थे, मेषे सखस्तिनिरनयनः, सिंहसंस्थे निशान्धः नीचेऽन्धोऽस्वः, शशिगृहगते बुद्बुदाक्षः पतङ्गे, भूरिद्रव्यो नृपहतधनो वक्त्ररोगी द्वितीये इति"॥ यदि सूर्य जन्मलग्नमें हो तो जातक शूर (संग्रामप्रिय), स्तब्ध (चिरकार्य कर्त्ता) और मध्यनेत्र होवे । सूर्य यदि मेष लग्नका हो तो नेत्रमें रोग हो । सिंह लग्नमें सूर्यके होनेसे रात्र्यन्ध हो । तुला लग्नस्थ सूर्य हो तो दरिद्र हो । कर्क लग्नमें सूर्य हो तो बहुत छोटी आंखें हों ॥ ५३ ॥ व्यये रवीन्दू युगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये । पट्छिद्रगाश्चाक्षि हरन्ति पापाः सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ ५४ ॥ रवीन्दू=सूर्याचन्द्रमसौ युगपत्सम्मिलितौ व्यये = लग्नाद् द्वादशगतौ भवेतां तदा जा- तस्य नेत्रे=द्वे चक्षुषी हरेतां = विनाशयेताम् । तावेव सूर्येन्दू व्यये पृथक्स्थौ भवेतां तदा सव्यापसव्ये नेत्रे हरेतामर्थात् सूर्यो हि केवलं व्यये तदा दक्षिणं नेत्रं, चन्द्रः केवलं व्यये स्थितो वामं नेत्रं नाशयतीति । षट्छिद्रगा इति । पापाः=पापग्रहाः षट्छिद्रगाः षष्ठष्टमा- वगताश्चाक्षि=नेत्रं हरन्ति = नाशयन्ति । तत्र रिपौ = षष्ठे स्थिताः पापाः सव्यं = वामनेत्रे हरन्ति, अष्टमस्थाः पापा दक्षिणं नेत्रं हरन्ति । तथोक्तमपि सर्वार्थचिन्तामणौ- दिनेशचन्द्रौ व्ययगौ तदानीमन्धो भवेत्सौम्यदृशा विहीनौ । युक्ते तयोरन्यतरेण रिफे काणो भवेत्सौम्यदृशा विहीने ॥ उक्तयोगे शुभग्रहदृष्टिसत्त्वे न तयोगफलमिति सर्वार्थचिन्तामण्युक्तवचनाद्बोध्यमिति ॥ यदि सूर्य और चन्द्रमा दोनों १२ वें भावमें हों तो दोनों आंखोंसे अन्धा हो । यदि केवल सूर्य १२ वें हो तो दाहिनी आँख और केवल चन्द्रमा १२ वें हो तो बांयी आंख अन्धी हो । या पापग्रह (मं० श० रा० के० सू०) छठे, आठवें भावोंमें हों तो आंखें अन्धी होती हैं। यहां भी छठेमें पापग्रह बांयी आंख और आठवेंमें दाहिनी आंखको नष्ट करते हैं ॥५४॥ विकर्त्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् । तस्येक्षणं दक्षिणमाशु हन्यादहिंक्ष्मासूनुयुतस्तु वामम् ॥ ५५ ॥ विकर्त्तनः=सूर्यो लग्नगतो वा अस्तगतः=सप्तमभावगतो दिनेशपुत्रेण=शनिनाऽभियु- तेक्षितः=सहितोऽवलोकितो वा चेद्भवत्तदा तस्य जातस्य दक्षिणमीक्षणं=चक्षुराशु=शीघ्रमेव