जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 213, कुल 588 में से
संदर्भ में पढ़ेंजातकमञ्जर्याध्यायः ॥ ६ ॥ १८७ tion and asthma) रोगैः व्यथितो भवति। भौम इति। भौमे=मङ्गले विलग्ने तस्मिन् शनिसूर्यदष्टे=शनिना सूर्येण चावलोकिते जातो मनुष्यो बसूरिरोगेन=वसन्तरोगेन (Sma- llpox) अभिहतः पीडितो भवेदिति ॥ ६२ ॥ सूर्य लग्नमें हो उसे मंगल देखता हो तो गुल्म, क्षय और श्वास रोगसे पीडित हो। मंगल लग्नमें हो उसे शनि और सूर्य देखते हों तो शीतला रोगसे मनुष्य हत हो ॥ ६२ ॥ पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शूनकभीतिमुपैति मर्त्यः । तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शूनकभीतिमुपैति जातः ॥ ६३ ॥ इदानीं कुक्कुरकर्त्तृकरोग उच्यते । पापेक्षित इति । पापग्रहेण=रविणा भौमेन वेक्षिते= दृष्टे, रविसुते=शनैश्चरे पापेन=भौमेन सूर्येण वाऽन्विते=युक्ते तथाभूते धनराशियुक्ते=द्विती- यभावगते जातो मर्त्यो नरः शूनकेन = कुक्कुरेण भीतिं = भयमुपैति = प्राप्नोति । कुक्कुरेण दंश्यत इत्यर्थः । तदिति । दिननाथपुत्रे = शनैश्चरे तद्भावनाथेन=द्वितीयभावपतिना सहितेऽ- थवा दृष्टे जातो नरः शूनकभीतिमुपैति ॥ ६३ ॥ द्वितीय भावमें शनि पापग्रहसे दृष्ट वा युत हो तो मनुष्यको कुत्तेका भय प्राप्त हो। यदि शनि २ रे भावके स्वामीसे युक्त हो वा दृष्ट हो तो मनुष्यको कुत्तेका भय होता है ॥६३॥ वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने । सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ ६४ ॥ इदानीं सर्पाद्भययोगो गलरोगयोगश्चोच्यते । वीर्यान्वित इति । वीर्यान्विते = सबले तृतीयभावेशे राहुसमेतराशिनाथान्विते = राहुणा समेतो यो राशिस्तन्नायेन सहिते, विलग्ने राहुयुते वा सर्पाद्भयमेति जातक इति । अथ-विक्रमराशिनाथे = तृतीयभावेशे बुधेन युक्ते जातो गलरोगं=कण्ठरोगं प्राप्नोति । अयमेव श्लोको द्वादशाध्याये ४२ तमे श्लोके 'वीर्या- न्विते' इत्यत्र 'शौर्याधिपे' इति पाठान्तरं कृत्वा वक्ष्यते । अन्यत्सर्वं समानमेव ॥ ६४ ॥ सहजेश राहुसे युत राशिके स्वामीसे युत हो, वा राहुलग्नमें प्राप्त हो तो सर्पसे भय होवे। तृतीयका पति बुधसे युक्त हो तो गळ रोग होवे ॥ ६४ ॥
[कुण्डली १ - सर्पभयं]
- तनु (१): १ रा.
- धन (२): २
- सहज (३): ३
- सुख (४): ४
- सुत (५): ५
- रिपु (६): ६ बु. मं.
- जाया (७): ७ के.
- मृत्यु (८): ८
- भाग्य (९): ९
- कर्म (१०): १०
- आय (११): ११
- व्यय (१२): १२
- मध्य फल: सर्पभयं
[कुण्डली २ - गलरोगः]
- तनु (१): २
- धन (२): ३
- सहज (३): ४
- सुख (४): ५
- सुत (५): ६
- रिपु (६): ७
- जाया (७): ८ चं. बु.
- मृत्यु (८): ९
- भाग्य (९): १०
- कर्म (१०): ११
- आय (११): १२
- व्यय (१२): १
- मध्य फल: गलरोगः
नीचे तृतीयेऽरिगृहे विमूढे पापेक्षिते तद्गलरोगवान् स्यात् । विषप्रयोगाद्द्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनाथैः ॥ ६५ ॥ तृतीये=तृतीयभावे नीचे=नीचवर्तिनि, अरिगृहे=शत्रुराशिके विमूढे=अस्तङ्गते वा ग्रहे पापेक्षिते = पापग्रहदृष्टे । एतदुक्तं भवति । लग्नात् तृतीयभावे यो ग्रहः स नीचवर्ती, शत्रुशशिकः, अस्तो वा भवेत्तस्मिन्नशुभग्रहेण दृष्टे, तद्गलरोगवान् = तस्मिन् योगे जातो नरः कण्ठरोगी भवति । तत्र गलरोगे हेतुरुच्यते । विषप्रयोगाद्विषभक्षणाद्वा । विषस्य प्रयो- गाद्यथाहाराद्वा विषस्य भक्षणाद्गलरोगी भवेत् , यथा नीलकण्ठः । तेषामुक्तप्रयोगानामभावे