जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 350, कुल 588 में से
संदर्भ में पढ़ें३२४ सटीकजातकपारिजाते- मङ्गल आठ बिन्दुयुत दशम या लग्नमें हो तो छोटा राजा हो। उच्चमें या स्वराशिसें हो ऐसे योगमें उत्पन्न जातक राजकुलका हो तो देशका नाथ तथा चक्रवर्ती राजा हो ॥२०॥ अथ बुधफलम् । केन्द्रत्रिकोणे वसुबिन्दुके ज्ञे जातीयविद्याधिकभोगशाली । स्वोच्चादिकैकद्वितयत्रिबिन्दौ तद्भाववृद्धिर्नच भावहानिः ॥ २१ ॥ बिन्दाधिक्यं यत्तदागारमासे विद्यारम्भः सर्वविद्याकरः स्यात् । गोचारेण ज्ञस्य शून्यालयस्थे मन्दे बन्धुज्ञातिसम्पद्विनाशः ॥ २२ ॥ अधुना बुधाष्टकवर्गफलमुच्यते-केन्द्रेति। वसुबिन्दुके ज्ञे = अष्टबिन्दुयुते बुधे केन्द्र- ( १।४।७।१० ) त्रिकोणे ( ५।९ ) विद्यमाने जातो नरो जातीयविद्याधिकभोगशाली = कौलिकविद्यायुतो बहुभोगयुक्तश्च भवति । स्वोच्चादिके = स्वकीयोच्चे, मूलत्रिकोणे, स्वराशौ वा गतवति बुधे एकद्वितयत्रिबिन्दुसहिते सति तद्भाववृद्धिः ( उक्तलक्षणयुतस्य भावस्य वृद्धिः ) भवति, न च तथा लक्षणे भावहानिर्भवति । अर्थादेव स्वनिचे शत्रुराश्यादौ वा गते बुधे एकद्वित्रिबिन्दुयुते तद्भावहानिर्भवतीति । बिन्दाधिक्यमिति । अष्टकवर्गे बुधस्य यद्भवनं विन्दाधिक्यं भवेत् तदागारमासे = तद्राशिसम्बन्धिनो यो मासः ( सौरमासः ) तस्मिन्मासे विद्यारम्भश्चेद्भवैत्तदा जातः सर्वासां विद्यानामाकरः भवति । अथ बुधस्य यो राशीर्बिन्दुरहितो भवेत् तस्मिन् शून्यालये गोचारेण मन्दे ( शनौ ) समागते सति जातस्य बन्धुज्ञातिसम्पदां विनाशो वाच्य इति ॥ २१-२२ ॥ बुध आठ विन्दुसे युक्त केन्द्र या त्रिकोणमें हो तो जातीय विद्या और अधिक भोग- वाला हो। अपने उच्चादिमें एक दो तीन विन्दुसे युक्त हो तो उस भावकी वृद्धि हो, हानि न हो ॥ २१ ॥ बिन्दु अधिक हो तो उस गृहके मासमें विद्यारम्भ करे तो वह सर्व विद्याका अधिकारी हो । गोचरसे बुधके शून्य गृहमें शनि हो तो भाई परिवार धनका नाश हो ॥ २२ ॥ अथ गुरुफलम् । जीवाष्टवर्गाधिकबिन्दुराशौ लग्ने निषेकं कुरुते सुतार्थी । तद्राशिदिग्भागगृहस्थितानि गोवित्तयानानि बहूनि च स्युः ॥ २३ ॥ जीवाष्टवर्गलघुबिन्दुगृहोपयाते भानौ कृताखिलशुभानि विनाशितानि । पञ्चादिबिन्दुकरिपुष्ठयरन्ध्रगेऽर्थे जातश्चिरायुरतिवित्तजितारिकः स्यात् ॥ २४ ॥ स्वोच्चेऽथवा निजगृहे वसुबिन्दुयुक्ते केन्द्रस्थिते सुरगुरौ गुरुभावगे वा । नीचारिभावमपहाय विमूढराशौ जातः स्वकीययशसा पृथिवीपतिः स्यात् ॥२५॥ यदा महीदेवकुलप्रजाता तदीययोगे नरपालतुल्याः । कृतानि पुण्यप्रभवप्रसिद्धबुद्धिप्रतापानि गुणाभिरामाः ॥ २६ ॥ सप्तप्रबिन्दौ सह लक्ष्मणेन जीवे बहुस्त्रीधनपुत्रवन्तः । षड्बिन्दुके वाहनवित्तवन्तः सप्ताष्टबिन्दौ जयशीलवन्तः ॥ २७ ॥ इदानीं गुरेरष्टकवर्गफलमाह-जीवेति श्लोकपञ्चकेन । जीवस्याष्टकवर्गेऽर्धाधिकबिन्दु- युते राशौ लग्ने चारादागते जीवे सुतार्थी नरः निषेकं कुरुते । एतदुक्तं भवति । अष्टवर्गे अधिकविन्दुयुतराशिलग्ने जन्मनि विद्यमाने गुरौ सति यदा चारवशात्पुनः पुनस्तद्राशि- मेति गुरुस्तदा तदा जातस्य पुत्रोदयसम्भवो भवति । तदिति । तस्य ( उक्तलक्षणयुतस्य ) राशेर्यो दिग्भागस्तस्मिन् भागे यद्गृहं तस्मिन् गृहे बहूनि गोवित्तयानानि स्थितानि स्युः । यथा-उक्तलक्षणो राशिः मेषः स्यात् तदा मेषस्य दिग्भागः पूर्वः, अतः पूर्वभागके गृहे