भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 370, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 370

३४४ सटीकजातकपारिजाते- नाशस्थानगत इति । यद्राशिपः = यस्य भावस्य पतिः, नाशस्थानगतः = अष्टमभावग- तः, दिवाकरकरच्छन्नः = सूर्यस्य किरणैर्लुप्तद्युतिदस्तङ्गत इत्यर्थः, अथवा नीचारातिगतः = स्वकीयनीचराशौ, शत्रुगृहे च स्थितः, यदि शुभैः खेटैः = बुधगुरुशुकैः, अयुक्तेक्षितः = युक्तो दृष्टश्च न भवति, तदा तद्भावस्य = यद्भावपतिरीदृल्लक्षणयुतो भवति तस्य भावस्य विना- शनं मुनिगणाः = गर्गपाराशरादयो महर्षयः, शंसन्ति = कथयन्ति । अथ यदि अत्रोक्तसं- स्थायां यद्राशिपः खेटैरितरप्रहैर्यतोऽपि भवेत्तदा मूर्त्तिप्रभृतिभावानां क्रमात् तथा फलप्रदो नहि भवति ॥ ७ ॥ लग्नादि जिस भावका स्वामी सूर्यके किरणसे आक्रान्त हो, अष्टम स्थानमें प्राप्त हो, नीच वा शत्रु गृहमें प्राप्त हो, यदि शुभग्रहसे युक्त न हो उस भावका विनाश मुनि लोग कहते हैं। अर्थात् ये भाव फलप्रद नहीं होते हैं ॥ ७ ॥ दुःस्थाने वाऽरिगे मूढे दुर्बले भावनायके । भावस्य सम्पदं कर्तुं न शक्ता भावमाश्रिताः ॥ ८ ॥ दुःस्थान इति । भावनायके = विचारणीयभावपतौ, दुःस्थाने = षडष्टव्ययानामन्यतमे भावे वा अरिगे = शत्रुगृहे विद्यमाने, मूढे = सूर्येण सहास्तङ्गते, दुर्बले = निर्वीर्ये सति भावमा- श्रिताः = तद्भावमुपगता अन्ये ग्रहा अपि तस्य भावस्य सम्पदं = वृद्धिं, कर्तुं, शक्ताः = दक्षा न भवन्ति । भावस्य शुभफलहेतवे आवेशेन शुभभावगतेन बलिना चावश्यमेव भवित- व्यमिति ॥ ८ ॥ यदि भावका स्वामी दुःस्थानमें शत्रुभवनमें हो अस्त हो वा दुर्बल हो तो भावाश्रित ग्रह भावको सम्पन्न करनेमें समर्थ नहीं होते हैं ॥ ८ ॥ दुष्टस्थितो वापि यदा नभोगः पापोऽरिनीचांशकसंयुतो यः । स्वतुङ्गमित्रांशकराशियुक्तः शुभेक्षितो वा यदि शोभनः स्यात् ॥ ६ ॥ दुष्टस्थित इति । यः कश्चित्, नभोगः = ग्रहः, यदा दुष्टस्थितः = असद्भावगतः, अपि वा अरिनीचांशकसंयुक्तः = शत्रुराशेर्नीचस्य वा नवांशे स्थितो भवति, स पापः = पापफलदो भवति । अथ स्वतुङ्गस्य, मित्रस्य च नवांशे राशौ च युक्तो ग्रहः, शुभग्रहेक्षितो वा यदि भवेत्तदा शोभनः शुभफलदः स्यात् ॥ ९ ॥ यदि जो कोई ग्रह दुष्ट स्थानमें स्थित हो वा शत्रुगृह वा नीचांशसे संयुक्त हो वह अशुभ फल देता है। यदि अपने उच्च वा मित्रके नवांश वा राशिमें शुभग्रहसे दृष्ट हो तो शुभ होता है ॥ ९॥ आवेशाक्रान्तराशीशे दुःस्थे भावस्य दुर्बलम् । स्वोच्चमित्रस्वराशिस्थे भावपुष्टिं वदेद् बुधः ॥ १० ॥ आवेशेति । भावेशाक्रान्तराशीशे = यस्य भावस्य फलं विचार्यते तद्भावेशेनाक्रान्तो यो राशिस्तदीशे ( विचारणीयभावेशाधिष्ठितराशिपतितादित्यर्थः) दुःस्थे = षडष्टव्ययाना- मन्यतमे गते भावस्य दुर्बलं फलं वाच्यम् । अथ च तस्मिन् भावेशाक्रान्तराशीशे ग्रहे स्वोच्चे, स्वमित्रराशौ, स्वकीयराशौ वा स्थिते सति भावपुष्टिं बुधो वदेदिति ॥ १० ॥ जिस किसी भावका स्वामी जहाँ बैठा हो उसका पति दुष्टस्थानमें हो तो उस मूल भावको दुर्बल करता है। यदि वह अपने उच्च, मित्र राशि, स्वराशिमें स्थित हो तो उस भावकी पुष्टि करता है, ऐसा पंडित लोग कहते हैं। सु० ज्ञा० कार० ॥ १० ॥ यद्भावलाभधनविक्रमराशियाता यद्भावनाथसुहृदश्च तदुच्चनाथाः । तद्भावपुष्टिबलमम्बरचारिणस्ते कुर्वन्ति मूढरिपुनीचविवर्जिताश्चेत् ॥ ११ ॥