जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 394, कुल 588 में से
संदर्भ में पढ़ें३६८ सटीकजातकपारिजाते- चन्द्रमा ६।८।१२ भावमें तृतीयेश से युक्त हो तो जातकको दूसरेका स्तनपान करना कहते हैं। चतुर्थेश और तृतीयेश दोनों चतुर्थ स्थानमें हों तो मनुष्योंके भ्रातृ स्थानकी वृद्धि न हो ॥ १२ ॥ यदि तृतीयेश और चतुर्थेश मंगलसे युक्त हों तो भाई को देखें। अन्यग्रहोंसे युक्त हों तो भाई न हो। तीसरे शनि हो तो भाई का नाश करे और राहु हो तो भाईकी वृद्धि करनेवाला हो ॥ १३ ॥ अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे ॥ जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥ १४ ॥ सहजाधिनाथे = तृतीयभावेशे, अदृश्यराशौ = स्पष्टलग्नाद्राशिषट्कमदृश्यं भवति, तद- न्यतमराशौ यदि वा = अथवा, सपापे = पापग्रहयुक्ते, वधूगृहस्थे = सप्तमभावगते सति, जातानुजस्योपरि = जायमानकनिष्ठानन्तरं, अनुजः = लघुसोदरभ्राता न स्यात्। स जातो यदि कस्यचिदनुजो भवेत्तदा तस्यानुजो न स्यादथवा तस्य जातस्यैकानुजानन्तरमन्यो- ऽनुजो न जायेत, इत्यर्थः। अथ सहजाधिनाथे, दृश्यराशिगते ( स्पष्टसप्तमभावाद्वाशिषट्का- भ्यन्तरे ) पुंवर्गगे = पुरुष-( विषम ) राशिसम्बन्धिवर्गे गतवति तथैव फलमर्थाज्जातानुज- स्योपरि नानुजः स्यादिति ॥ १४ ॥ यदि तृतीयका स्वामी अदृश्य राशिमें हो वा पापग्रहसे युक्त सप्तममें हो तो भाई उत्पन्न होनेके बाद फिर भाई न हो। पुरुष राशिके वर्गमें दृश्य राशिमें हो तो भी वही फल होवे ॥ १४ ॥ भ्रातृस्थानपतौ तु पुंभवनगे तस्यानुजो जायते युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते । सौम्यर्क्षे शुभखेचरैक्षितयुते केन्द्रत्रिकोणस्थिते पश्चाज्जातसहोदरश्चिरसुखी दीर्घायुरारोग्यभाक् ॥ १५ ॥ भ्रातृस्थानपतौ = तृतीयेशे, पुंभवनगे = नरराशि-( मेष-मिथुनादिविषमराशि ) गते सति तस्य = जातस्य अनुजः=कनिष्ठभ्राता जायते। अथवा यदि भ्रातृस्थानपतौ, युग्मर्क्षे= सम-( वृष-कर्क्यादि ) राशौ गते, तस्मिन् भार्गवेण = शुक्रेण, शशिना = चन्द्रेण च, युक्ते= सहिते, वा वीक्षिते = अवलोकिते जातस्यानुजो जायते। अथ भ्रातृस्थानेशे सौम्यर्क्षे = शुभ- राशौ, शुभखेचरैक्षितयुते = शुभग्रहेण दृष्टे, वा सहिते, केन्द्रत्रिकोण-(१।४।७।१०।५।९) स्थिते सति तस्य जातस्य पश्चाज्जातसहोदरः = लघुभ्राता, चिरसुखी = यावज्जीवनं सुख- भाक्, दीर्घायुः, आरोग्यभाक् च भवति ॥ १५ ॥ तृतीय भावका स्वामी पुरुष राशिमें हो तो उसको भाई होवे। तृतीयेश सम राशिमें यदि हो शुक्र और चन्द्रमासे युक्त हो, वा दृष्ट हो तो अनुजका जन्म होवे। शुभग्रहकी राशिमें तृतीयेश शुभग्रहसे दृष्ट युत हो, केन्द्र-त्रिकोणमें स्थित हो तो उसके पश्चात् दीर्घायु तथा आरोग्यवान् भाई होवे ॥ १५ ॥ सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा। गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयाराशौ सपतौ तथैव ॥ १६ ॥ सहोदरस्थानपतौ = तृतीयभावेशे, तनुस्थे = जन्मलग्नमुपगते, वा सोदरनायके=तृतीय- येशे सलग्नपे = लग्नपतिना संयुक्ते, अस्य जातस्य, मातुः, अनन्तरं = एतज्जातानन्तरं, गर्भः, अभयः = निर्विघ्नो भवति। तृतीयराशौ = तृतीय ( भ्रातृ ) भावे, सपतौ = पतिना सहिते ( तृतीयेशे तृतीयगत इत्यर्थः ) तथैव फलमर्थात् गर्भोऽभयोऽनन्तरमस्य मातुरिति वाच्यम् । अस्मिन्योगे जातस्य माता पुनरपि निर्विघ्नं सन्तति प्रसूते इत्यर्थः ॥ १६ ॥ ।