जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 401, कुल 588 में से
संदर्भ में पढ़ेंतृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३७५ स्तुतीयेश इति त्रयो ग्रहा यदि जन्मकाले बलिष्ठाः स्युस्तदा जातः रणरङ्गशूरः = रणरङ्गे ( सङ्ग्रामस्थले ) शूरो महाबलो भवतीति ॥ ३९ ॥ तेषां त्रयाणां ( कुजानुजराशिनाथानाम् ) ग्रहाणामपहारकाले = अन्तर्दशायामथवा पाके = महादशाकाले मूलफलादिसौख्यमुपैति जातक इति । अन्यत्स्पष्टमित्यलम् ॥ ४० ॥ मंगलसे युक्त ग्रह बली हो तो पराक्रम, बल और गान-सुख प्राप्त हो । मंगल, तृतीयेश और सहज राशिस्थ तीनों ग्रह बलवान् हों तो रणभूमिमें वीर हो । उन तीनोंकी अन्तर्दशा वा दशामें मूल आदिका सुख हो, दोनों कर्णमें सत्कथाका श्रवण तथा धारणार्थ भूषण प्राप्त हों, तथा भ्रातृ पुत्रका लाभ हो ॥ ३९-४० ॥ सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते ॥ नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥ ४१ ॥ सोदराधिपे = तृतीयेशे, सौम्यवर्गसहिते = शुभग्रहस्य वर्गे गतवति, बलान्विते च जातः सात्त्विकः = सत्त्वगुणयुक्तो ( क्षमाशीलः ) भवति । तस्मिन् सोदराधिपे नीचे, अस्तमये, पापराशिगे तथा पापग्रहेण सहिते च जातः साहसी = रजोगुणी (उद्यमकृद्) भवति ॥४१॥ बलवान् भ्रातृस्थानश शुभ वर्गमें हो तो सात्विकी हो। यदि तृतीयेश नीच, मूढ, शत्रु- राशिमें हो पापग्रहसे युक्त हो तो साहसी होवे ॥ ४१ ॥ अथ कण्ठविचारः । शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने । सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥ ४२ ॥ इदानीं सर्पभय-गलरोगवाह-शौर्याधिप इति । तृतीयेशे राह्वधिष्ठितराशीशेन सहिते, विलग्ने राहुयुते । अत्र तृतीयेशो लग्नेशेनान्वितो भवेत् राहुर्लग्नगतो भवेदिति तात्पर्यम् । अथवा तृतीयेशो राहाक्रान्तराशिपतिना सहितः स्याद्वा राहुर्लग्नगतः स्यादिति । तदा जातः सर्पाद्भयं प्राप्नोति । तृतीयेशे बुधेन युक्ते सति बातो गलरोगभाक् स्यादस्मिन्योगे जातस्य गलदेशे रोगो भवतीत्यर्थः ॥ ४२ ॥ तृतीयेश राहुस्थित राशिपतिसे युत हो, लग्न राहुयुक्त हो तो सर्पका भय होवे । तृती- येश बुधसे युक्त हो तो जातकको गलरोग होवे ॥ ४२ ॥ पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् ॥ भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्डुरोगम् ॥ ४३ ॥ विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ । राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥ ४४ ॥ सबुधो विक्रमपतिर्गलरोगकरो भवेत् । सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥ ४५ ॥ बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च । तत्केन्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥ ४६ ॥ सरलार्थाश्चैते श्लोका इत्यलम् ॥ ४३-४६ ॥ पापग्रह तीसरे हो तो गलरोग होवे । गुलिक आदि उपग्रहसे युक्त हो तो विशेष गल- रोग हो । तृतीय भावमें मङ्गल, शनि बली हों तो खुजली रोग होवे ॥ यदि राहुसे वा राहु जिस राशिमें हों उसके स्वामीसे युक्त तृतीयेश और वृहस्पति दोनों लग्नमें हों तो बैल, गायका भय हो ॥ ४४ ॥ बुधके साथ तृतीय भावका स्वामी हो तो गलरोग उत्पन्न करे । तृतीय भावमें शत्रु गृहका वा नीचका पापग्रह हो तो विष आदिके द्वारा भाईका अभाव होवे ॥ ४५ ॥