भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 403, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 403

तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३७७ इदानीं जातस्य धैर्य्यविचारमाह - धैर्यान्वितौ इति श्लोकयुगलेन । तत्र श्लोकौ स्पष्टा- र्थावित्यलम् ॥ ५१-५२ ॥ तृतीयेश शुभग्रहके नवांशमें हो तो शुभदृष्टयुत वैशेषिकांशमें हो तो धैर्यवान् होवे ॥५१॥ तृतीय भावका स्वामी पापग्रहसे युत वा दृष्ट हो वा दुष्ट स्थानमें हो तो धैर्यका नाश हो । यदि केन्द्रमें वा त्रिकोणमें शुभयुत वा शुभदृष्ट तृतीयेश हो तो धैर्यवान् हो ॥ ५२ ॥ अथ बलविचारः । वीर्याधिपे भूमिसुतेन युक्ते पापर्क्षगे वीर्यविनाशहेतुः । केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥ ५३ ॥ श्लोकेनानेन जातस्य बलविचारः क्रियते । वीर्याधिपे = तृतीयेरो, मङ्गलेन युक्ते पाप- र्क्षके = पापराशिगते सति वीर्यविनाशहेतुः = बलहानिकारणं भवति । अत्र जातो निर्बलो भवतीत्यर्थः । अथ तृतीयेगे ससिते = शुक्रेण सहिते बलाढ्ये च जातो वीर्याधिकः = महाबलो भोग- गुणप्रकाशश्च भवति ॥ ५३ ॥ तृतीय का स्वामी मङ्गलसे युक्त होकर पापग्रहकी राशिमें हो तो बलका विनाशक होता है, और बलवान् तीसरेका स्वामी शुक्रके साथ केन्द्र या कोणमें हो तो अधिक वीर्यवान् तथा भोग आदि गुणसे प्रकाशित होवे ॥ ५३ ॥ अथ अशनविचारः । शुक्लं निशाकरं त्यक्त्वा लग्नात्सोदरभे शुभे । शुभराश्यंशगे जातः समेति सुखभोजनम् ॥ ५४ ॥ इदानीमशनविचारमाह - शुक्रमिति । शुक्लं, निशाकरं = चन्द्रं च त्यक्त्वा लग्नात्सोद- रभे = तृतीयभावे शुभे = शुभग्रहे, शुभराशिनवांशे च गतवति जातः सुखभोजनं समेति = प्राप्नोति । चन्द्रे शुक्रे च तृतीये सति न सुखभोजनमिति शुक्लं निशाकरं त्यक्त्वेत्युक्तमिति ॥ लग्नसे तृतीय स्थानमें चन्द्रमा और शुक्रके अतिरिक्त शुभ (बु० वृ०) ग्रह शुभराशि के नवांशमें हों तो जातक शुभ भोजनसे युक्त होवे ॥ ५४ ॥ जीवस्य राशिनवभागदृक्काणसंस्थे वीर्याधिपे यदि सुरार्चितवीक्षिते वा । तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥५५॥ वीर्याधिपे = तृतीयभावेशे, जीवस्य = गुरोः, राशौ ( धनुर्मीनान्यतरे ) नवभागे = नवांशे, दृक्काणे वा स्थिते यदि सुरार्चितेन = गुरुणा वीक्षिते = अवलोकिते, अथवा तत्केन्द्र- कोणगृहगे = तत्तृतीयभावेशात् केन्द्रकोणे ( १।४।७।१०, ९।५ ) गृहे गतवति बलाढ्ये = सबले, अवनिजे = भौमे सति जातः कन्दफलमूलरसप्रियः स्यात् ॥ ५५ ॥ यदि तृतीय भावका स्वामी बृहस्पतिसे दृष्ट बृहस्पतिके राशि, नवांश या द्रेष्काणमें हो, वा बलवान् मंगल उसके ( ३ भावके ) केन्द्र-कोणमें हो तो जातक कन्द, मूल, फलके रसका प्रिय हो ॥ ५५ ॥ सोदरारातिगः शुक्रः शोकरोगभयप्रदः । तत्रैव शुभकारी स्यात्पुरतो यदि भास्करात् ॥ ५६ ॥ शुक्रः, सोदरारातिगः = तृतीये षष्ठे वा भावे स्थितः जातस्य शोकरोगभयप्रदो भवति । तत्रैव = तृतीये षष्ठे वा, भास्करात् पुरतः = सूर्यादग्रे विद्यमानः सन्शुभकारी भवति । अर्थात्छुकस्तृतीये षष्ठे वा भवेत्तथा सूर्यो द्वितीये पञ्चमे वा भवेदिति ॥ ५६ ॥ तृतीय तथा छठें स्थानमें शुक्र हो तो शोक-रोग-भय देनेवाला होता है। यदि वही शुक्र सूर्यके आगे हो तो शुभ होता है ॥ ५६ ॥