जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 427, कुल 588 में से
संदर्भ में पढ़ेंपञ्चमषष्ठभावफलाध्यायः ॥ १३ ॥ ४०१ इदानीं पुत्रप्रदा योगा उच्यन्ते-पुत्रस्थान इत्यादिश्लोकचतुष्केण । तत्र श्लोकाः किल सरलार्था इति ॥ १६-१९ ॥ पञ्चमभाव वा पञ्चमेश वा गुरु शुभग्रहसे दृष्ट हो तथा शुभग्रहसे युक्त हो तो निस्सन्देह पुत्रप्राप्ति होवे ॥ १६ ॥ लग्नेश पुत्रभावमें हो पञ्चमेश बलवान् हो गुरु पूर्ण बलवान् हो तो निस्सन्देह पुत्र- प्राप्ति हो ॥ १७ ॥ परिपूर्ण बली बृहस्पति पुत्रभावमें हो उसे लग्नेश देखता हो तो निस्सन्देह पुत्रप्राप्ति हो ॥ बृहस्पति वैशेषिकांशमें हो वैसे ही पुत्रेश भी हो, ५ वें भावको नवमेश देखता हो तो उसको पुत्रप्राप्ति होवे ॥ १९ ॥ दशमे शीतगुर्ध्यूने भृगुजः पापिनः सुखे । तस्य सन्ततिविच्छेदो भविष्यति न संशयः ॥ २० ॥ षष्ठाष्टमस्थो लग्नेशः पापयुक्तः सुताधिपः । दृष्टो वा शत्रुनीचस्थैः पुत्रहानिं वदेद् बुधः ॥ २१ ॥ लग्नसप्तमधर्मान्त्यराशिगाः पापखेचराः । सपत्नराशिवर्गस्था वंशविच्छेदकारिणः ॥ २२ ॥ इदानीं वंशविच्छेदकरा योगा उच्यन्ते-दशमे शीतगुरित्यादिश्लोकत्रयेण । श्लोकास्तु सुगमार्थका इत्यलम् ॥ २०-२२ ॥ चन्द्रमा दशवें भावमें हो, शुक्र सप्तममें हो पापग्रह चतुर्थमें हों तो उसके सन्तानका निःसन्देह नाश होता है ॥ २० ॥ लग्नेश षष्ठ भावमें वा अष्टम भावमें हो, पुत्रेश पापग्रहसे युक्त हो वा उसे शत्रुगृहस्थ वा नीचस्थ ग्रह देखता हो तो पुत्रकी हानि कहे ॥ २१ ॥ पापग्रह लग्न, सप्तम, नवम और द्वादश स्थानमें हों तथा शत्रुके राशि या वर्गमें हों तो वंशका विच्छेद करनेवाले होते हैं ॥ २२ ॥ बन्ध्या वृद्धा कृशा बाला रोगिणी पुष्पवर्जिता । कर्कशा स्थूलदेहा च नार्योऽष्टौ परिवर्जिताः ॥ २३ ॥ इदानीमष्टविधानां स्त्रीणां परित्यागमाह-बन्ध्येति । बन्ध्या = सन्ततिरहिता ( Ba- rren woman ), वृद्धा = अधिकवयस्का, कृशा = क्षीणाङ्गी, बाला = अत्यल्पवयस्का, रोगि- णी = व्याधिपीडिता, पुष्पवर्जिता = रजोहीना, कर्कशा = दुर्व्यवहारिणी, स्थूलदेहा चैता अष्टौ नार्यः परिवर्जिताः । श्रेयस्कामैः पुंभिरेतल्लक्षणोपलक्षिताः स्त्रियो हेया नोद्वाह्या इत्यर्थः ॥ बन्ध्या, वृद्धा, कृशा ( दुर्बला ), बाला, रोगिणी, पुष्पवर्जिता ( ऋतुसे हीना ), कर्कशा, स्थूलदेहा ( मोटी ) ये ८ स्त्रियां वर्जित हैं । विवाहके पूर्व इनकी परीक्षा कर लेनी चाहिये ॥ गुरुलग्नेशदारेशपुत्रस्थानाधिपेषु च । सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ २४ ॥ पुत्रस्थानं गते पापे तदीशे नीचराशिगे । शुभदृष्टिविहीने तु वक्तव्या त्वनपत्यता ॥ २५ ॥ गुरुलग्नहिमांशुनां पञ्चमस्थैरशोभनैः । शुभदृग्योगरहितैर्वक्तव्या त्वनपत्यता ॥ २६ ॥ पुत्रस्थानगते पापे तदीशे पापमध्यगे । सौम्यदृग्योगरहिते वक्तव्या त्वनपत्यता ॥ २७ ॥ पापमध्यगते जीवे पुत्रेशे बलवर्जिते । सौम्यदृग्योगरहिते वक्तव्या त्वनपत्यता ॥ २८ ॥