जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 440, कुल 588 में से
संदर्भ में पढ़ें(बुध-शुक्र-शुक्लचन्द्रान्यतमेन) वीक्षिते = अवलोकिते च सति जातो नरः, त्रिकालज्ञः = भूत-वर्त्तमान-भविष्यविद् भवेत् ॥ ६७-६८ ॥ पञ्चमेश-दुःस्थान (६।८।१२) में हो या अदृश्य राशिमें हो तो जातक विशेषकर मन्द- बुद्धि होता है । यदि पञ्चमेश बुध और गुरुसे युक्त होकर केन्द्र या कोणमें हो तथा बलवान् हो तो जातक बुद्धिमान् और इशारेसे अभिप्रायको जाननेवाला होता है ॥ ६७ ॥ वृहस्पति अपने नवांशमें, या शुभषड्वर्गमें या गोपुरादि वैशेषिकांशमें, या शुभग्रहके नवांशमें होकर शुभदृष्ट हो तो जातक त्रिकालज्ञ (भूत-वर्त्तमान-भविष्य जाननेवाला) होता है ॥ ६८ ॥ हृद्रोगी पञ्चमे पापे सपापे च रसातले । क्रूरषष्ट्यंशसंयुक्ते शुभदृग्योगवर्जिते ॥ ६६ ॥ इदानीं जातस्य हृद्रोगयोगमाह—हृद्रोगीति । जातकस्य पञ्चमे भावे पापे = सूर्य- भौम-शनि-क्षीणचन्द्रान्यतमे तिष्ठति, रसातले = लग्नाच्चतुर्थभावे च सपापे = पापग्रहेण सहिते सति तथा तत्र क्रूरषष्ट्यंशसंयुक्ते शुभग्रहाणां दृष्ट्या योगेन च वर्जिते सति जातो नरः हृद्रोगी = हृद्रोगयुक्तो भवति ॥ ६९ ॥ चतुर्थ और पञ्चम भावमें पापग्रह हो, पापषष्ट्यंशसे युक्त हो और शुभग्रहके योग तथा दृष्टिसे रहित हो तो जातकको हृदय रोग होता है ॥ ६९ ॥ अथ पुण्यविचारः । अन्नदानपरो नित्यं पञ्चमेशे शुभांशके । शुभखेचरसंयुक्ते भूमिजे केन्द्रमाश्रिते ॥ ७० ॥ इदानीं यस्मिन्योगे जातोऽन्नदानपरो भवति तमाह—अन्नदानपर इति । पञ्चमेशे शुभांशके विलसति, भूमिजे = मङ्गले शुभखेचरेण संयुक्ते केन्द्रमाश्रिते च सति जातो नरः नित्यं = सततम्, अन्नदानपरः = अन्नदानैकशीलः भवति ॥ ७० ॥ इति पञ्चमभावफलानि । पञ्चमेश शुभग्रहके नवांशमें होकर शुभग्रहसे युक्त हो और मङ्गल केन्द्रमें हो तो जातक अन्नदान करनेमें तत्पर रहता है ॥ ७० ॥ अथ षष्ठभावफलम् । तत्रादौ रोगविचारः । रोगारिव्यसनक्षतानि वसुधापुत्रारितश्चिन्तये- दुक्तं रोगकरं तदेव रिपुगे जीवे जितारिर्भवेत् । षष्ठोऽरीशबुधौ विधुन्तुदयुतौ लग्नेशसम्बन्धिनौ लिङ्गस्यामयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः ॥ ७१ ॥ अथाधुना षष्ठभावफलानि विवक्षुरादौ षष्ठभावे विचारणीयविषयान् ततो रोगयोगं चाह—रोगत्यादिना । रोगः = आमयः, अरिः = शत्रुः, व्यसनं = दुराचरणम्, क्षतं = व्रणा- बाघातश्चैतानि वसुधापुत्रारितः = मङ्गलतः षष्ठभावतश्च सञ्चिन्तयेत् = विचारयेत् । तदेव = षष्ठस्थानं ( भौमान्वितम् ) रोगकरमुक्तम् । जीवे = गुरौ, रिपुगे = षष्ठभावगते सति जातः, जितारिः = शत्रुनाशको भवेत् । अरीशबुधौ = षष्ठेशो बुधश्च, विधुन्तुदेन = राहुणा युतौ, लग्नेशस्य सम्बन्धिनौ (स्थान-दृष्टि-मित्र-सहचरान्यतमसम्बन्धयुक्तौ ) भवेतां तदा