भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 443, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 443

पञ्चमसप्तषष्ठभावफलाध्यायः ॥ १३॥ ४१७ यदि उन तीनोंमें एक ही ग्रह प्रबल हो तो थोड़े घाव, शत्रु, रोग वगैरह कहने चाहिये। यहां अच्छा या बुरा जो फल कहा गया है वह उस योगकारक ग्रहके सम्बन्धसे जानना चाहिये। अर्थात् जिस ग्रहका जो अच्छा या बुरा फल है वही जानना चाहिये ॥ ७६ ॥ पापे लग्नगते सपत्नपयुते देहव्रणं देहिनां पुत्रस्थे पितृपुत्रयोः सुखगते मातुः कलत्रे स्त्रियाः । धर्मस्थे सति मातुलस्य सहजे तस्यानुजस्य व्रणं लाभस्थे तु तदग्रजस्य निधने जातो गुदार्तो भवेत् ॥ ७७ ॥ पाप इति । सपत्नपेन = षष्ठेशेन युते पापे = पापग्रहे ( सूर्य = कुज-शनि-राहूणाम- न्यतमे ) लग्नगते सति देहिनां = जातानां, देहव्रणं = शरीरे व्रणं स्यात् । सपत्नपयुते पापे पुत्रस्थे = पञ्चमभावगते सति पितृपुत्रयोः = जातस्य पितुः पुत्रस्य च देहव्रणं स्यात् । सुखगते = चतुर्थभावगते सति मातुः = जातस्य जनन्याः देहव्रणं स्यात् । कलत्रे=सप्तमगते, स्त्रियाः देहव्रणं स्यात् । धर्मस्थे = नवमभावगते सति तन्मातुलस्य । सहजे = तृतीये सति तस्यानुजस्य = तस्य कनिष्ठभ्रातुः । लाभस्थे = एकादशस्थे सति तु तदग्रजस्य = तस्य ज्येष्ठभ्रातुः व्रणं जायते । अथ सपत्नपयुते पापग्रहे निधने = अष्टमभावगते सति जातः स्वयमेव गुदार्त्तः = अपानरोगेण ( भगन्दरादिना ) पीडितो भवेदिति ॥ ७७ ॥ षष्ठेशसे युक्त लग्नमें पापग्रह हो तो मनुष्यके देहमें व्रण हो । पञ्चममें हो तो पिता और पुत्रके देहमें। चौथेमें हो तो माताके देहमें । धर्ममें हो तो मामाके देहमें । तृतीयमें हो तो जातकके छोटे भाईके देहमें व्रण हो । लाभमें हो तो बड़े भाईके देहमें व्रण हो । अष्टममें हो तो जातक स्वयं गुदार्त्त ( बवासीर रोगी ) हो ॥ ७७ ॥ भानुर्मूर्ध्नि शशी मुखेऽवनिसुतः कण्ठे तु नाभेरधः चान्द्रिः सूरिरनामयं प्रकुरुते नेत्रामयं भार्गवः । मन्दो वातमहिश्च केतुरुदरव्याधिं बुधक्षेत्रगो लग्नेशः शशिजेन वीक्षितयुतो गुह्यव्रणं यच्छति ॥ ७८ ॥ भानुरिति । भानुः = सूर्यो यदि षष्ठेशयुतः षष्ठाष्टमगतश्च भवेत्तदा मूर्ध्नि = शिरोदेशे आमयं=रोगं=व्रणादिकं करोति । शशी=चन्द्रस्तथाभूतो मुखे, अवनिसुतः=मङ्गलस्तथाभूतः कण्ठे, चान्द्रिः=बुधस्तथाविधस्तु नाभेरधोदेशे रोगं करोति। सूरिः=बृहस्पतिः अनामयं=रोग- मुक्तिम् ( आरोग्यम् ) कुरुते । भार्गवः=शुक्रस्तथाविधश्चेत्तदा नेत्रामयं = नेत्ररोगं प्रकुरुते । मन्दः=शनिः, वातं=वातव्याधिम् , अहिः=राहुः, केतुश्च उदरव्याधिम्=उदररोगं प्रकुरुतः । अथ च लग्नेशः, बुधक्षेत्रगः = कन्यामिथुनान्यतरस्थः शशिजेन = बुधेन, वीक्षितयुतः = दृष्टो युक्तो वा षष्ठस्थश्च यदि भवेत् तदा गुह्यव्रणं=भगन्दरादिगुप्तरोगं यच्छति=करोतीति । Notes—अत्र बृहस्पतौ 'अनामयत्वम्' उक्तं परन्तु पराशरेण षष्ठेशयुते षष्ठाष्टमगते च गुरौ नासिकारोगोऽभिहितः । तथा च तद्वचनानि— षष्ठाधिपोऽपि पापश्चेद्देहे वाऽप्यष्टमे स्थितः । तदा व्रणं भवेद् देहे कर्मस्थानेऽप्ययं विधिः ॥ एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः । व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम् । इन्दुना च मुखे, कण्ठे भौमेन, ज्ञेन, नाभिषु ॥ गुरुणा नासिकायां च भृगुणा नयने पदे । शनिना राहुणा कुक्षौ केतुना च तथा भवेत् । इति ॥ ७८ ॥ षष्ठेशसे युक्त ६।८ भावमें सूर्य हो तो शिरपर, चन्द्रमा हो तो मुखमें, मंगल हो तो कण्ठमें, बुध हो तो नाभिके नीचे रोग हो । गुरु हो तो रोगका नाश करते हैं । शुक्र हो तो