जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 457, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३१ कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे । कलत्रराशैर्यदि पुत्रशाली तदन्यराशैर्यदि पुत्रहीनः ॥ ३७ ॥ कलत्रेति । पुरुषजन्मकुण्डल्याम्—कलत्रराशित्रितये=कलत्रराशेर्भेदत्रये ( कलत्रेशो यत्र भवेत् १, तस्योच्चं नीचं वा २, कलत्रराशिः ३ इति कलत्रस्य भेदत्रयं भवति ) किंवा सप्तमादित्रये, अथवा तदीशसंयुक्तभराशिकोणे=सप्तमेशस्थितराशेः कोणे ( ५।९ ) यदि कलत्रराशिः = स्त्रिया जन्मराशिः स्यात्तदा जातः पुत्रशाली भवेत् । तस्मिन् यदि तदन्यराशिः = स्त्रिया जन्मराशेर्भिन्नो राशिः स्यात्तदा पुत्रहीनो भवेदिति ॥ ३७ ॥ पुरुषके कलत्र* राशित्रयमें वा सप्तमेशसे संयुक्त राशिके कोणमें यदि उसके स्त्रीकी राशि हो तो पुत्रशाली ( पुत्रवान् ) हो । उससे अन्य राशि हो तो पुत्रहीन होवे ॥ ३७ ॥ अथ स्त्रियाः स्तनविचारः । काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे जीवेन्दुज्ञसितान्विते गुरुकुचा, शुष्कस्तना भूमिजे । लम्बापीनपयोधरा सगुलिकच्छायासुताहिश्वजे, धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे ॥ ३८ ॥ इदानीं कथम्भूता स्त्री भवेदित्याह—काठिन्येति । दिनकरे = सूर्ये, मदे=सप्तमे स्थिते सती जातस्य स्त्री काठिन्योरुकुचा=काठिन्यं=घनत्वमुपगतावूरू = जघनौ, कुचौ = स्तनौ च यस्यां सा तथाभूता भवेत् । जीवेन्दुज्ञसितान्विते = गुरु-चन्द्र-बुध-शुक्रान्यतमेन सहिते कामाधिपे = सप्तमभावेशे केन्द्रगे सति स्त्री गुरुकुचा = पीनपयोधरा भवेत् । भूमिजे=मङ्गले सप्तमगे सति शुष्कस्तना = गलत्कुचा भवेत् । सगुलिकच्छायासुताहिश्वजे = गुलिकेन सहिते छायासुते = शनौ, अहिश्वजे = राहुकेत्वोरन्यतरे वा सप्तमे गतवति सति स्त्री लम्बापीनपयो- धरा = लम्बायमानावपीनौ ( स्थूलौ ) च पयोधरौ ( कुचौ ) यस्यास्तथाभूता भवेत् । धूमादौ = सप्तमे भावे धूमाद्युपग्रहे सति स्त्री विषमाकृतिस्तनवती = असमान-(लघुमहत्-) पयोधरधरा भवेत् । अथवा कामपे = सप्तमेशे दुःस्थे सत्यपि विषमाकृतिस्तनवती स्त्री भवेदिति ॥ ३८ ॥ सूर्य सप्तममें हो तो उसके स्त्रीकी जांघें और स्तन कठिन हों। सप्तमेश केन्द्रमें हो बृह- स्पति, चन्द्रमा, बुध या शुक्रसे युक्त हो तो स्त्रीके स्तन बड़े हों। यदि ७ वेंमें मङ्गल हो तो शुष्क स्तन हों। गुलिकके साथ शनि, राहु या केतु हों तो लम्बे मोटे स्तन हों। सप्तमेश दुष्टस्थानमें हो अथवा सप्तममें धूमादि उपग्रह हो तो स्त्री विषमस्तनवाली हो ॥ ३८ ॥ अथ गम्यस्त्रीविवरणम् । बन्ध्यासङ्गमिनेऽस्तगे समयधूकेलिं निशानाथके भूपुत्रे तु रजस्वलाजनरतिं बन्ध्यावधूमेति वा । वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणीं नीचस्त्रीरतिमर्कजोरगशिखिप्राप्तेऽथवा पुष्पिणीम् ॥ ३६ ॥ इदानीं कथम्भूतया स्त्रिया सह सङ्गो भवेदित्याह—बन्ध्येति । इने = सूर्ये, अस्तगे = सप्तमभावगते सति पुरुषो बन्ध्यासङ्गं करोति । निशानाथके = चन्द्रे सप्तमगते सति समव- धूकेलिं = स्वसमानरूपगुणवयोयुतया वध्वा सह केलिं = रतिक्रीडां करोति । भूपुत्रे = भौमे सप्तमे सति रजस्वलाजनरतिं करोति । अथवा बन्ध्यावधूम एति = प्राप्नोति । इन्दुसुते = बुधे
- कलत्रनाथस्थितभं तदीयराशिं कलत्रस्य विदुर्महान्तः । 29 तस्योच्चनीचं यदिवा कलत्रराशिं तदंशत्रितयं तदीयम् ॥