जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 474, कुल 588 में से
संदर्भ में पढ़ें४४८ सटीकजातकपारिजाते- सूर्य, मङ्गल और शनि ९ वेंमें होवें तो बन्धुहीन, साधु और पितृहीन हो । सूर्य, बुध और गुरु ९ वेंमें हों तो जातक राजाका स्नेही और धनी हो । सूर्य, बुध और शुक्र ९ वें में हों तो राजाके समान हो । सूर्य, बुध और शनि हों तो पापी और परस्त्रीगामी हो । सू० शा० कार ॥ ८० ॥ जीवाकौ सितसंयुक्तौ परवधूसक्तो धनी पण्डितः । सार्की जीवदिवाकरौ यदि विटस्वामी तपःस्थानगौ ॥ आदित्यासितभार्गवा नवमगा हीनो नृपैर्दण्डितो बाल्ये तप्तमनाः सुखी च परतश्चन्द्रारशीतांशुजाः ॥ ८१ ॥ जीवाकविति । ( सू० बृ० शु० ) – जीवाकौ = गुरुसूर्यौ, सितेन = शुक्रेण संयुक्तौ नव- मगती स्यातां तदा जातः परवधूसक्तः = अन्यदाररतः, धनी पण्डितश्च भवेत् । ( सू० बृ० श० )—सार्की = शनिना सहितौ जीवदिवाकरौ = गुरुसूर्यौ, तपःस्थानगौ = नवमभावगतौ स्यातां तदा जातो विटस्वामी = विटानां ( धूर्तानां ) स्वामी = धूर्तराड् भवेदिति । ( सू० शु० श० ) - आदित्यासितभार्गवाः = सूर्यशुक्रशनैश्चराः नवमगा भवेयुस्तदा जातो हीनो गुणादिरहितो नृपैः = राजभिर्दण्डितश्च भवेत् । ( च० मं० बु० ) - चन्द्रारशीतांशुजाः = चन्द्रकुजबुधा यदि नवमगताः स्युस्तदा जातो बाल्ये = शैशवे, तप्तमनाः = दुःखितचित्तः, परतः = यौवने च सुखी भवेदिति ॥८१॥ यदि ९ वें भावमें सू० बृ० शु० हों तो जातक परस्त्रीरत, धनी और पण्डित हो। सू० बृ० श० हों तो धूर्तराज हो। सू० शु० श० नववें भावमें होवें तो जातक निर्गुण तथा राजासे दण्डित हो । चं० मं० और बुध ९ वें भावमें होवें तो जातक बाल्यावस्था में दुःखी और उसके बाद (युवा अवस्था) में सुखी होता है । देवाराधनतत्परो नवम गैश्चन्द्रारवागीश्वरै- र्जातो नष्टकलत्रवान् क्षततनुः शुक्रेन्दुभूनन्दनैः ॥ क्षुद्रो मातृहरो महीपतिसमश्चन्द्रारसूर्यात्मजै- राचार्यो धनवान् विभुश्च रजनीनाथज्ञदेवाचितैः ॥ ८२ ॥ देवेत्यादि । ( चं० मं० बृ० ) – चन्द्रारवागीश्वरैः = चन्द्रमङ्गलवृहस्पतिभिः नव- मगैः जातः देवाराधनतत्परः = देवपूजनपरायणो भवेत् । ( चं० मं० शु० ) - शुक्रेन्दुभूनन्दनैः = चन्द्र-कुज-शुक्रैः नवमगैः जातः नष्टकलत्र- वान् = मृतभार्यः, क्षततनुः = पीडितगात्रश्च भवेत् । ( चं० मं० श० ) - चन्द्रारसूर्यात्मजैः = चन्द्रकुजशनैश्चरैः नवमगैः जातः, क्षुद्रः = कृपणः, मातृहरः = जननीविनाशकः, महीपतिसमः = नृपतुल्यश्च भवेत् । ( चं० बु० बृ० ) - रजनीनाथज्ञदेवाचितैः = चन्द्रबुधगुरुभिर्नवगैः जातः आचार्यः, धनवान्, विभुश्च भवेदिति ॥ ८२ ॥ यदि चं० मं० बृ० ९ वेंमें होवें तो जातक देवताओंकी पूजामें तन्मय होता है। चं० मं० शु० ९ वेंमें हों तो स्त्रीरहित तथा रोगी होता है । चं० मं० श० ९ वें में होनेसे कृपण (कञ्जूस) और मातृहीन होता है। चं० बु० बृ० ९ वेंमें होवें तो जातक पूज्य विद्वान्, धनी और परा- क्रमी होता है ॥ ८२ ॥ मातुः सपत्नीजनको विभुः स्यात् चन्द्रज्ञशुक्रा नवमोपयाताः । पापी विवादप्रियबुद्धियुक्तो जातः सुधारश्मिबुधार्कपुत्रैः ॥ ८३ ॥ मातुरिति । ( चं० बु० शु० ) – चन्द्रज्ञशुक्रा यदि नवमोपयाता भवेयुस्तदा जातो