जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 476, कुल 588 में से
संदर्भ में पढ़ें४५० सटीकजातकपारिजाते- शनिके साथ नववेंमें वे ही हों तो विद्या पढ़नेवाला खूब वक्ता हो । गुरु, शुक्र, बुध और चन्द्रमा ९ वें भावमें हों तो श्रीमान् राजा हो ॥ ८६ ॥ जातः साहसविक्रमार्जितधनः सूर्यारजीवार्कजैः शूरः सर्वगुणप्रपञ्चरसिकः शुक्रारजीवेन्दुभिः । षट्पञ्चत्रिचतुर्विद्यच्चरयुते भाग्ये समेति श्रियं राजत्वं सबुधे विबोधनगुरौ जातः समेत्यश्रियम् ॥ ८७ ॥ जात इति । ( सू. मं. वृ. श. ) - सूर्यारजीवार्कजैः = सूर्य-मङ्गल-बृहस्पति-शनैश्चरैः भाग्ये = नवमे भावे गतैः जातः साहसविक्रमार्जितधनः = उद्योगेन, पराक्रमेण चोपार्जित धनयुक्तः भवेत् । ( चं. मं. वृ. शु. ) - शुक्रारजीवेन्दुभिः = शुक्रमङ्गलबृहस्पतिचन्द्रैः भाग्ये स्थितैः जातः शूरः = सङ्ग्रामप्रियः, सर्वगुणप्रपञ्चरसिकः = विविधगुणविलासी च भवेत् । अथ सामान्यतो नवमे भावे त्र्यादिग्रहयोगफलमाह - षडित्यादि । भाग्ये = नवमे भावे षट्-पञ्च-त्रि-चतुर्विद्यच्चरैर्युते जातः, श्रियं = विविधसम्पत्तिं, समेति = प्राप्नोति । सबुधे = बुधयुक्ते त्र्यादिग्रहे भाग्ये गते राजत्व समेति । अथ च तस्मिंस्त्र्यादिग्रहे विबोधन- गुरौ = विगतो बोधनो गुरुश्च यस्मात्तस्मिन् (बुध-गुरु-रहिते) भाग्ये गतवति अश्रियम् = अनैश्वर्यं समेति । बुधे गुरौ वा भाग्ये गतवति भाग्यवान् भवतीति भावः । तत्रापि भाग्ये त्र्यादिग्रहयोगे बुधे गुरौ च गतवति विशेषादिति चिन्त्यम् ॥ ८७ ॥ नवें में सूर्य, मंगल, बृहस्पति और शनि हों तो जातक साहस और पराक्रमसे धन उत्पन्न करे । शुक्र, मंगल, बृहस्पति और चन्द्रमा हों तो वीर और सर्वगुणप्रपञ्चका रसिक हो। छः, पांच, तीन या चार ग्रहसे युक्त भाग्य स्थान हो तो जातक लक्ष्मी प्राप्त करे । बुधके साथ वे ग्रह नववें हों तो राज प्राप्त हो । यदि वे ग्रह बुध या गुरुसे रहित होकर ९ वें हों तो भाग्यहीन होवे ॥ ८७ ॥ जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहाः पुरुषम् । व्याधिप्रायमकान्तं जनहीनं बन्धनातंमतिदीनम् ॥ ८८ ॥ जनयन्तीति । गुरुसौम्याभ्यां = बृहस्पतिबुधाभ्यां विवर्जिताः = रहिताः ग्रहास्त्रिप्रभृ- तयः, भाग्यसंस्थाः = नवममुपगताः, व्याधिप्रायं = विविधरोगक्रान्तम, अक्रान्तं = कुरूपं, जन- हीनं = परिवारादिरहितं, बन्धनातं = कारागारादिभाजम्, अतिदीनं च पुरुषं जनयन्ति = उत्पादयन्ति । अत्रेदमयुक्तं भवति । नवमे भावे बुधगुरुरहिता त्र्यादयो ग्रहा न भाग्यका- रका भवन्ति । किन्तु यदि केचित् त्र्यादयो ग्रहाः सबुधाः सजीवा वा भवेयुस्तदा ते भाग्य- वन्तमेव जातं कुर्वन्तीति ॥ ८८ ॥ बृहस्पति और बुधके अतिरिक्त ग्रह भाग्य स्थानमें हों तो पुरुषको प्रायः व्याधि होती है, जनसे हीन होता है, तेज हीन, बन्धनातं और अत्यन्त दीन होता है ॥ ८८ ॥ भाग्याधिपे विनाशास्थे नीचशत्रुखगेक्षिते । क्रूरांशे नीचराश्यादौ भाग्यहीनो भवेन्नरः ॥ ८९ ॥ भाग्याधिप इति । भाग्याधिपे = नवमभावेशे, विनाशास्थे = अष्टमभावमुपगते तस्मिन् नीचगतग्रहेण स्वशत्रुग्रहेण वा दृष्टे क्रूरांशे = पापग्रहनवांशे, वा नीचराश्यादौ = स्वनिच- राशौ स्वनिच-नवांशे वा विद्यमाने भाग्येशे जातो नरः भाग्यहीनः भवेदिति ॥ ८९ ॥ भाग्याधीश अष्टममें हो उसे नीच गत या शत्रु ग्रह देखता हो, वह क्रूरांश या नीच राशि आदिमें हो तो भाग्यसे हीन मनुष्य होता है ॥ ८९ ॥