जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 493, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६७ रादिग्रहेषु यावन्तो ग्रहा बलिनस्तावन्तः स्वस्वप्रव्रज्याकरा भवन्ति, तत्र खलु यावन्तो ग्रहा अस्तमिताः स्युस्तावन्तः स्वप्रव्रज्यां न प्रयच्छन्ति, परञ्च तत्प्रव्रज्योपगतेषु ते श्रद्धालवो भवन्तीति । अभियाचितमात्रदीक्षिता इति । बलिभिस्तैर्ग्रहैः, निहतैः = अन्यग्रहेण युद्धे पराजितैः, अन्यैश्च निरीक्षितैः दृष्टैरपि जाता नरा अभियाचितमात्रदीक्षिताः = दीक्षाभ्यर्थनशीला भव- न्ति, न तु लब्धदीक्षा भवन्तीति । Notes—सूर्येण सह विद्यमानो ग्रहः स्वकालांशाधिकान्तरितश्चेन्नास्तं गच्छति । एवं सूर्याद् द्वितीयराशावपि यदि स्वकालांशान्तर्गतः स्यात्तदाऽस्तं गच्छतीति तावद्ग्रहाणां कालांशा अपि लिख्यन्ते— दक्षेन्दवः १२, शैलभुवश्च १७, शक्राः १४, रुद्राः ११, खचन्द्राः १०, तिथयः १५ क्रमेण । चन्द्रादितः काललवा निरुक्ता ज्ञशुक्रयोर्वक्रगयोर्द्विहीनाः १२, ८ ॥ इति, सि० शि० ॥ तथा च पराजितलक्षणं वराहोक्तम्— दक्षिणदिक्स्यः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥ कथितानां प्रव्रज्यानां परिपक्तिः तत्तद्योगकर्त्तृ ग्रहदशाकालेऽवगम्या । 'दीक्षादानसमर्थो यो भवति तदा बलेन संयुक्तः । तस्यैव दशाकाले दीक्षां लभते नरोऽवश्यम्' इत्युक्तत्वात् ॥ ४२ ॥ प्रव्रज्याकारक ग्रह सूर्यके साथ अस्त हों तो अदीक्षित (मन्त्रहीन) यती हो । यदि वे ग्रह बली हों तो उस प्रव्रज्यामें श्रद्धा रखनेवाला होवे (यती नहीं) । यदि वे ग्रह युद्धमें हारे और अन्य ग्रहोंसे दृष्ट हों तो याचना मात्रसे दीक्षित होता है ॥ ४२ ॥ अथ जीविकायोगाः । अथाधुना जातकोऽयं कथं धनमुपार्ज्जयेत् कया वृत्या जीवनञ्च यापयेदित्यादीनां विचाराणाहास्मिन् जीविकायोगप्रकरणे । अर्थाप्तिः पितृजननीसपत्नमित्रभ्रातृस्त्रीभृतकजनाद्दिवाकराद्यैः । होरेन्द्वोर्दशमगतैर्विकल्पनीया भेन्द्वर्कास्पदपतिगांशनाथवृत्त्या ॥ ४३ ॥ अर्थाप्तिरिति । होरेन्द्वोः=होरा लग्नम्, इन्दुश्चन्द्रस्तयोर्दशमगतैः दिवाकराद्यैः = सूर्या- दिग्रहैः, पितृजननीसपत्नमित्रभ्रातृस्त्रीभृतकजनात् क्रमेण अर्थाप्तिः (धनागमनं) विकल्प- नीया = परिचिन्तनीया । यथा—जन्मकालीन लग्नाच्चन्द्राद्वा यदि रविर्दशमे स्यात् तदा पितृतो धनागमं ब्रूयात् । लग्नाद्दशमे चन्द्रे सति जनन्याः = मातुः सकाशाद्धनाप्तिर्वाच्या । लग्नाच्चन्द्राद्वा भौमे दशम गते सपत्नात् = शत्रोतः । एवं बुधे दशमे सति मित्रात् = सुहृदः सकाशात् । गुरौ दशमे भ्रातुः सकाशात् । शुक्रे दशमगते स्त्रीतः । शनौ दशमे भृतक- जनात् = भृत्यात् = सेवकाद्धनाप्तिर्वक्तव्या । अत्र लग्नाद्दशमे ग्रहाभावे चन्द्राद्दशमस्थग्रहा- द्विचार्यः । यदि कश्चिल्लग्नाद्दशमगतः स्यात् कश्चिचन्द्रादपि दशम गः स्यात्तदा द्वाभ्यामेव विचारयेत् । तत्र द्वावपि ग्रहौ स्वस्वदशायां स्वस्वोक्तवशादर्थाप्तिं कुरुतः । तत्रापि बलीयान् विशेषेणेति वाच्यम् । अथ लग्नाच्चन्द्रादपि दशमे स्थाने शून्ये (ग्रहरहिते) सति किं कार्यम् ? तदाह— भेन्द्वर्कास्पदपतिगांशनाथवृत्त्येति । भेन्द्वर्काणां = लग्न-चन्द्र-सूर्याणाम्, आस्पदपतयः=दश- मेशाः, गता येषु अंशेषु = नवांशेषु, तेषां नवांशानां ये नाथास्तेषां पृथक् पृथक् या वृत्ति- स्तया जातस्यार्थाप्तिर्वाच्या । अत्रेदं किल विचिन्त्यम् । लग्नाच्चन्द्रात्सूर्याच्च दशमेशा ग्रहा