भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 544, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 544

५१८ सटीकतजातपारिजाते- म् ५, क्षन्नाधीकरगोभीमाच ६, सुदधिनक्षत्रजः सितः ७, वामाङ्गारकोत्रक्षुर्निधिः ८" इति सव्यचक्रान्त्यवाक्यानि क्रमशो विदुः । अत्रेदं किलावेद्यम् । अश्विनी-पुनर्वसु-हस्त-मूल- पूर्वभाद्रपदानां प्रथम-द्वितीय-तृतीय-चतुर्थचरणेषु यावन्ति दशामानानि तावन्त्येव कृत्ति- का-श्लेषा-स्वाती-रेवती-उत्तराषाढाणां च चरणपरत्वेन दशामानानि भवन्ति । तेषु के- वलमेतावानेव भेदः, यदश्विनी-पुनर्वसु-हस्त-मूल-पूर्वभाद्रपदानां प्रथम-द्वितीय-तृतीय- चतुर्थचरणाः क्रमेण मेष-वृष-मिथुन-कर्कराशिसम्बन्धिनो भवन्ति । कृत्तिका-श्लेषा- रेवती-स्वाती-उत्तराषाढानां प्रथम-द्वितीय-तृतीय-चतुर्थचरणाः क्रमेण धनुः-मकर-कु- म्भ-मीन-राशिसम्बन्धिनो भवन्तीति । परमुभयत्र दशामानं तदीशाश्च समाना एव । तथा चित्रा-उत्तरभाद्र-भरणी-पूर्वाषाढ-पुष्याणां प्रथम-द्वितीय-तृतीय-चतुर्थचरणाः सिंह-कन्या-तुला-वृश्चिकराशिसम्बन्धिनः क्रमेण भवन्ति । तेषु दशावर्षाणि च सव्यच- क्रान्त्यचत्वारि वाक्यानि ज्ञेयानि । एवं किल सव्यचक्रे भवति । अथापसव्यचक्रे उच्यते- द्विदैवेति । द्विदैव-कमलागार-पितृ-दानववैरिणाम् = विशाखा-रोहिणी-मघा-श्रवणानाम्, अपसव्यस्य चक्रस्य चादिचतुष्टयं 'धनक्षेत्रयं पराङ्गमिष १, तासादन्नक्षुन्निधिर्दासा २, चमीभोगीरायधनर्क्षमू ३, त्रयोशगीमाभेतासह ४, इति वाक्यं भवति । तथा शतभिषाऽनुराधा-ज्येष्ठा-मृगशिरः-धनिष्ठा-पूर्वफाल्गुनी-उत्तरफाल्गुनी-आर्द्रेति नक्षत्राणाम्, अपसव्यजानि अन्त्यानि 'ऋक्षुर्निधिर्दासास्तमेव ५, गिरायधनक्षत्रपरः ६, गोभावाची- सदात्रिझुन्ने ७, धीजः सितोमिवाङ्गारिका ८' इति वाक्यानि चक्रोपगतानि च तज्ज्ञा आहुः । एतदुक्तं विज्ञेयम् । अपसव्ये चक्रे विशाखा-रोहिणी-मघा-श्रवणानां प्रथम- द्वितीय-तृतीय-चतुर्थचरणाः क्रमेण वृश्चिक-तुला-कन्या-सिंहराशिसम्बन्धिनो भवन्ति । तेषां दशावर्षाणि चापसव्यचक्रादिवाक्यचतुष्टयेन ज्ञेयानि । अथ मृगशिरः-पूर्वफाल्गुनी- अनुराधा-धनिष्ठानां यावन्ति दशामानानि तावन्त्येव आर्द्रा-उत्तर फाल्गुनी-ज्येष्ठा- शतताराणां दशामानानि भवन्ति । तेषु केवलमेतावान् भेदः यत् मृगशिरः-पूर्वफाल्गुनी- अनुराधा-धनिष्ठानां प्रथम-द्वितीय-तृतीय-चतुर्थचरणाः क्रमेण कर्क-मिथुन-वृष- मेषसम्बन्धिनः सन्ति । आर्द्रा-उत्तरफाल्गुनी-ज्येष्ठा-शतभिषजां प्रथम-द्वितीय-तृतीय- चतुर्थचरणाः क्रमेण मीन-कुम्भ-मकर-धनुः-सम्बन्धिनो भवन्तीति । एतत्सर्वमेव काल- चक्रदशाचक्रावलोकनतः व्यक्तं स्यादित्यलम् ॥ १०२-१०५ ॥ अश्विनी, कृत्तिका, पुनर्वसु, श्लेषा, हस्त, नक्षत्रोंका रेवती, मूल, पूर्वभाद्र, उत्तराषाढ और स्वाती नक्षत्रोंका सव्यगति चक्रके आदि चार वाक्य हैं यह सब तत्त्वज्ञ मुनिगण कहते हैं ॥ १०२ ॥ चित्रा, उत्तराभाद्रपद, अरणी, पूर्वाषाढ और पुष्य नक्षत्रोंके सव्यचक्रके अन्त्य चार वाक्य क्रमसे कहे हैं ॥ १०३ ॥ विशाखा, रोहिणी, मघा, श्रवणा नक्षत्रोंके अपसव्य चक्रके आदिके चार वाक्य हैं॥१०४॥ शतभिषा, अनुराधा, ज्येष्ठा, मृगशिरा, धनिष्ठा, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, आर्द्रा नक्षत्रोंके अपसव्य चक्रके अन्त्य चार वाक्य क्रमसे प्राप्त मुनिगण कहे हैं ॥ १०५ ॥ अथ सव्यचक्रवाक्यानि । पौरङ्गावोमातासहदोधी ॥ १ ॥ नक्षत्रदासीचर्वणगः ॥ २ ॥ रूपोत्रक्षुर्निधाय्यरङ्गम् ॥ ३ ॥ वाणी चस्थन्दधिनक्षत्रम् ॥ ४ ॥ हंसश्रवशांबरपत्रम् ॥ ५ ॥ क्षन्नाधीकरगोभीमाच ॥ ६ ॥ सुदधिनक्षत्रजः सितः ॥ ७ ॥ वामाङ्गारकोत्रक्षु नधिः ॥ ८ ॥