भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 562, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 562

३३६ सटीकजातकपारिजाते- इदानीं मरणदशामाह । पापाः = पापग्रहाः, यदि क्रूरराशिगताः = पापराशिस्थिताः, शत्रुखेटनिरीक्षिता वा शत्रुखेचरसंयुक्ता भवेयुस्तदा तद्दशायां = तत्पापग्रहदशायां पापान्तरे च पुरुषस्य मृतिः = मरणं भवेत् । दशाधिपस्य=पूर्वकथितमृत्युदशापतेः (क्रूरराशिगतस्य शत्रुखेटेन वीक्षितयुतस्य पापस्य) यः शत्रुग्रहः तस्य भुक्त्यन्तरान्तरे (अन्तरे प्रत्यन्तरे च) नूनं=निश्चयेन मृत्युकालो भवेत् । पापखेटस्य = स दशाधिपस्य शत्रुग्रहो यदि पापग्रहः स्यात्तदा तस्य पापखेटस्य भुक्त्यन्त- रान्तरे मृत्युकालो भवत्येवेति । तदानीं नरो म्रियत एवेति भावः ॥ ५५-५६ ॥ क्रूरराशिमें पापग्रह हों, अपने शत्रु ग्रहसे देखे जाते हों, शत्रुग्रहसे युक्त हों तो उनकी दशामें मृत्यु हो ॥ ५५ ॥ दशाधीशका जो शत्रु ग्रह हो उसके भुक्तिके अन्तरमें (पाप ग्रहकी भुक्ति में) निश्चय मृत्युका समय हो ॥ ५६ ॥ स्वोचादिजन्यमशुभस्य दशाप्रवेशे भावादिजं फलमशोभनपाकमध्ये । दृष्ट्युद्भवं सकलपापवियच्चराणां पाकावसानसमये फलमाहुरायाः ॥ ५७ ॥ इदानीं पापग्रहाणामशुभ-भाव-दृष्टि-जनितं फलं कदा फलतीत्याह । अशुभस्य ग्रहस्य स्वोचादिजन्यं = स्वकीयोच्च-मूलत्रिकोण-स्वक्षेत्रादिजनितं फलं, दशाप्रवेशे = दशारम्भकाल एव फलति । भावादिजं फलमशोभनस्य, पाकमध्ये=दशामध्यकाले फलति । सकलपापविय- च्चराणां=अखिलपापग्रहाणाम् दृष्ट्युद्भवं फलं पाकावसानसमये=दशान्ते फलतीति आर्या आहुः ॥ पापग्रहके उच्च आदि जन्यफल दशाके प्रवेशमें, पापग्रहोंके भावफल दशाके मध्यमें होते हैं । सब पापग्रहके दृष्ट्युद्भव फलका होना दशाके अन्त्यमें श्रेष्ठ लोग कहें हैं ॥ ५७ ॥ पाक्त्यादौ भावजन्यं शुभानां तत्तद्राशिस्थानजं पाकमध्ये । दायस्यान्ते दृष्टिसञ्जातमेवं सर्वे तारापाकभेदं वदन्ति ॥ ५८ ॥ इदानीं शुभानां भाव-स्थान-दृष्टि-जनितफलानि कदा फलन्तीत्याह । शुभानां = शुभग्रहाणां भावजन्यं फलं पाक्त्यादौ = दशारम्भे, तत्तद्राशिस्थानजं फलं पाकमध्ये = दशामध्ये, दृष्टिसञ्जातं फलं दायस्यान्ते = दशावसाने फलतीति सर्वे आचार्या एवमेव ता- रापाकभेदं = नक्षत्रदशाभेदं वदन्तीति ॥ ५८ ॥ इति नक्षत्रदशासमुदायफलम् । शुभग्रहके भावोत्पन्न फल दशाके आदिमें होते हैं। उस २ राशिके स्थानज फल दशा के मध्यमें होते हैं। दृष्टिसे उत्पन्न फल दशाके अन्त्यमें होते हैं। इस प्रकार सब नक्षत्रका दशाभेद पण्डित लोग कहते हैं ५८ ॥ अथान्तर्दशाफलानि । अथ तरणिदशायां चौर्यमुच्चाटनाद्यैर्धनमनलचतुष्पात्पीडनं नेत्रतापम् । उदरदशनरोगः पुत्रदारैर्वियोगो गुरुजनपितृनाशो भृत्यगोवित्तहानिः ॥५९॥ अथाधुना ग्रहाणामन्तर्दशाफलान्युच्यन्ते । तत्रादौ रविदशाफलमाह-अथेति । तत्रं सामान्यतो रविदशायामशुभमेव फलमुक्तम् । परञ्च रविश्चेच्छुभभावेशः स्वोच्चमूलत्रिकोणा- दिगतश्च भवेत्तदा तद्दशायां शुभफलेनापि भवितव्यमिति चिन्तनीयम् ॥ ५९ ॥ सूर्यकी दशामें चोरी, उच्चाटनादिसे धनकी प्राप्ति, अग्नि चतुष्पदोंसे पीडा, नेत्र ताप, उदर और दन्तका रोग, स्त्रीपुत्रका वियोग, गुरुजन पिताका नाश, भृत्य, गाय, धनकी हानि होती है ॥ ५९ ॥