जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 86, कुल 588 में से
संदर्भ में पढ़ेंअथ वियोनिजन्माऽध्यायः ॥ ३ ॥ अथेदानों तृतीयाध्यायो व्याख्यायते । अस्मिन्नध्याये प्रथमं वियोनिजन्म ततो निषेको जन्मविधिश्चेति विषयाः सन्ति । तत्र किं नाम तावद्वियोनिजन्मेत्युच्यते । अखिलानां वियो- नीनां मनुष्येतराणां पशुपक्षिरुचराचराणामुत्पत्तिरेव वियोनिजन्मवाक्येन व्यवह्रियते । तदस्यि ऽध्याये प्रथमं वियोनीनां जन्मविधिर्निरूप्यते, वराहमिहिराचार्यहोरायाम्— क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः क्लीबे चतुष्टयगतेत द्वेक्षणाद्वा । चन्द्रोपगद्विरसभागसमानरूपं सत्त्वं वदेद्यदि भवेत्स वियोनिसंज्ञः ॥ १ ॥ क्रूरग्रहैरिति । जन्मकाले प्रश्नकाले वा क्रूरग्रहैः = सूर्य-कुज-सपापबुध-शनि-क्षीण- चन्द्रैः सुबलिभिर्बलयुक्तैः, सौम्यैः = शुभग्रहैः पापग्रहावशिष्टैर्विबलैर्निर्बलैः, क्लीबे = नपुंसकग्रहे (शनिबुधयोरन्यतरे ) चतुष्टयगते = केन्द्रवर्त्तिनि । वा तदवेक्षणात् = पापैः सबलैः शुभैर्बलैः क्लीवेनेक्षणात् लग्ने क्लीवग्रहवलोकिते इति द्वितीयो योगः, तदा चन्द्रोपगद्विरस- भागसमानरूपं = चन्द्र उपगतो यस्मिन् द्विरसभागे (द्वादशांशे ) तत्समानरूपं सत्त्वं वियोनिं वदेत् । स द्विरसभागो यदि वियोनिसंज्ञो नरातिरिक्तो भवेत्तदैवं वदेदन्यथाऽन्यथैवेति । यदि चन्द्रो मेषस्य द्वादशांशे भवेत्तदा मेषादेर्नृपे वृषभमहिषादेः सिंहे सिंहव्याघ्रादेर्जन्म वाच्यमेवं सर्वत्र ज्ञेयम् । तयोक्तं सारावल्याम्— "क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनिभागगते । चन्द्रे, शशनी केन्द्रे तदीक्षिते वोदये वियोनिः स्यात् ॥ आधाने जन्मनि वा प्रश्ने वा द्वादशांशके चन्द्रः । यस्मिन्व्यवस्थितः स्यात् लग्ने वा तत्समं सत्त्वम्" ॥ इति ॥ Notes—क्षुद्र जन्तूनां सङ्ख्या लग्नगतद्वादशांशवशाज्ज्ञेयाः इति ॥ १ ॥ इस तीसरे अध्यायमें पहले वियोनिजन्मका निरूपण करते हैं । 'वियोनि' इस शब्दसे मनुष्यसे इतर पशु, पक्षी, कीट, जलचर और पेड़ पौधे इत्यादि समझना चाहिये । प्रश्न अथवा जन्मके समय चन्द्रमा जिसके द्वादशांशमें वर्त्तमान हो उसी जातिके वियो- निका जन्म कहना चाहिये । जैसे चन्द्रमा चतुष्पदराशिके द्वादशांशमें हो तो चतु- ष्पदका, जलचरमें हो तो जलचरका । एवं सर्वत्र समझे । उसमें भी विशेष कर राशियोंके अनुरूप अर्थात् मेषके द्वादशांशमें भेंड़, बकरे इत्यादि । वृषमें बैल, भैंसे इत्यादि । इसी तरह सर्वत्र जाने । यह विचार चन्द्रगत द्वादशांश यदि वियोनिका हो तभी करना चाहिये, अन्यथा मनुष्यका जन्म कहे । उक्त हालतमें पापग्रह बली, शुभग्रह निर्बल और नपुंसक ग्रह केन्द्र में रहें तो पहला योग, एवं पापग्रह बली शुभग्रह निर्बल हों और नपुंसक ग्रह लग्न को देखता हो तो वियोनिजन्मका दूसरा योग होता है । (सु० शा० कार ) ॥ १ ॥ पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः । लग्नं च वियोनिसंज्ञकं दृष्ट्वाऽत्रापि वियोनिमादिशेत् ॥ २ ॥ इदानीं वियोनिज्ञाने प्रकारान्तरमाह । बलिनः = सबलाः, पापाः = पूर्वोक्ताः पापग्रहा, स्वभागगाः = स्वनवांशे स्थिताः, शोभनाः=शुभग्रहाः, पारक्ये=परनवांशे वर्त्तमाना विबलाः= निर्बलाश्च भवेयुस्तदा वियोनिसंज्ञकं लग्नं चेत्तत्कालिकं दृष्ट्वाऽत्रापि योगे चन्द्रस्थितद्वादशां- शसमानरूपां वियोनिमादिशेत् ॥ २ ॥ बलवान् पापग्रह अपने नवांशमें हो, शुभग्रह निर्वलहों तथा दूसरेके नवांशमें स्थित हो और लग्न वियोनि संज्ञक (मे० वृ० क० वृ० इत्यादि) हो तो चन्द्रमाके द्वादशांशके सदृश वियोनि कहे ॥ २ ॥