कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 129, कुल 709 में से
संदर्भ में पढ़ें८० | कादम्बरी- | [ कथामुखे-
लुलितकमलवने रतिखिन्न-शबरसीमन्तिनी-स्वेदजलकणापहारिणि वनमहिष-रोमन्थ-फेनबिन्दुवाहिनि चलितपल्लव-लतालास्योपदेश-व्यसनिने विघटमान-कमलखण्ड-मधु-शीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातजडिम्नि मन्द-मन्दसञ्चारिणि प्रवाति प्रभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानाम् इभगण्डडिण्डिमानां मधुलिहां कुमुदोदरेषु विघटमान-दलपुट-निरुद्धपक्षसंहतीनामुच्चरत्सु हुंकारेषु, प्रभातशिशिर-मरुतोहतमुक्तप्रजतुरसारिलिप्तं पद्दमंमॉलमिव सशेषनिद्राजिह्विततारं चक्षुरुन्मीलयत्सु
ते अस्य सन्तीति तस्मिन् तथोक्ते, इत आरभ्य सप्तम्यन्तपदानि 'मातरिश्वनि' इत्यग्रिमस्य विशेषणानि बोध्यानि। लुलितम् आन्दोलितं कमलवनं पद्मवनं येन तस्मिन् तथोक्ते, रतिखिन्नानां निधुवनश्रान्तानां शबरसीमन्तिनीनां किरातवधूनां यत् स्वेदजलं घर्मवारि तस्य कणा बिन्दवः तेषाम् अपहारिणि निजस्पर्शेन नाशविधायिनि तस्मिन् तादृशे, एतेन वायोस्त्रिविधगुणवत्त्वं व्यञ्जितम्। वनमहिषाणां सैरिभाणां रोमन्थः चर्वितचर्वणं तत्र ये फेनबिन्दवः कफकणाः तान् वहति धारयतीति तस्मिन् तथोक्ते। चलितानां स्ववेगेनान्दोलितानां पल्लवानां किसलयानां लतानां वल्लीनाञ्च यत् लास्यं चाम्लयरूपं नृत्यं तस्य उपदेशे शिक्षणे व्यसनम् आसक्तिरस्यास्तीति तस्मिन् तथोक्ते। विघटमानानि विकाशं प्राप्यमाणानि यानि कमलखण्डानि पद्मवनानि तेषां मधु पुष्परसः तस्य शीकराणां बिन्दूनाम् आसारं धारासम्पातं 'धारासम्पात-आसारः' इत्यमरः, वर्षति क्षिपतीति तस्मिन् तथोक्ते। कुसुमानां पुष्पाणाम् आमोदः सौरभः तेन तर्पितं प्रीणितम् अलिजालं भ्रमरसमूहो येन तस्मिन् तथोक्ते। निशावसाने रात्रिषेपे जात उत्पन्नः जडिमा जडत्वं शीतलसलिलामोदवहनादिना भारवत्त्वं यस्य तस्मिन् तथोक्ते, अतएव मन्दमन्दसञ्चारिणि शनैः शनैः प्रवहति प्राभातिके प्रातः समयके मातरिश्वनि सदागतौ वायावित्यर्थः, प्रवाति प्रवहति सति 'मातरिश्वा सदागतिः' इत्यमरः।
कमलेति। कमलवनस्य पद्मवनस्य प्रबोधे जागरणे विकसने मङ्गलपाठकानां स्तुतिविधायिनां कियतां मधुलिहां भ्रमराणां नृपतीनां प्रबोध इव तदीयवन्दिजनानामिव्याशयः। इभगण्डेषु दानवारि-सहितहस्तिकपोलेषु डिण्डिमानां तत्संज्ञकवाद्यविशेषरूपाणाम्, बिषयविशेषसूक्ष्मार्थं यथा कश्चित् डिण्डिमं वादयति तथैव भ्रमरा अपि हस्तिजागरणार्थं गुञ्जन्तीत्याशयः। तथा कुमुदोदरेषु कैरवाभ्यन्तरेषु घटमानैः सूर्योदयात् सङ्कोचं प्राप्यमाणः दलपुटैः पत्रकोशैः निरुद्धा अवरुद्धा पक्षसंहतिः छदसम्मूहो येषां तथोक्तानाञ्च कियतां मधुलिहां द्विरेफाणां हुङ्कारेषु अव्यक्तशब्देषु उच्चरत्सु उत्थितेषु सत्सु। इह मधुलिट्सु मङ्गलपाठकारोपः शब्दः, पद्मवने नृपत्वारोपस्त्वार्थ इत्येकदेशविवर्तिरूपकम्, इभगण्ड-डिण्डिमेत्यत्र निरङ्गकेवलंरूपकम्, तथा चानयोः परस्परमनपेक्षाभावेन संसृष्टिरलङ्कारः। तदुक्तं दर्पणे- 'मिथोऽनपेक्ष्यमेतेषां स्थितिः संसृष्टिरुच्यते' इति।
प्रभातेति। ऊषरा तृणशून्या या शय्या शयनभूमिः तेन धूसरा मलिनवर्णा क्रोडरमराजयः हृदय-लोमपङ्क्तयो येषु तथोक्तेषु वॅनमृगेषु अरण्यहरिणेषु, प्रभातं प्रातःकालः तस्य यः शिशिरः शीतलो वायुः
रुकी हुई प्रातःकाल की हवा धीरे-धीरे चलने लगी थी—वह कहीं कमलवनों को गुदगुदा आती थी, कहीं रति में थकी हुई भीलनियों के पसीने की बूँदें ले भागती थी, कहीं जंगली भैंसों की जुगाली का फेन उड़ा लाती थी, कहीं लतारूपी नर्तकियों के पल्लव रूपी वस्त्रों को फहरा-फहरा कर उन्हें नृत्य का पाठ पढ़ा जाती थी, कहीं खिले हुये कमलों के पुष्प-रस की फुहारें बरसाने लगती थी, कहीं भौरों के झुण्डों में फूलों की गन्ध बाँट आती थी और कभी प्रातःकाल की ठंडक से मानो स्वयम् सिकुड़-सी उठती थी। कहीं कमलवनों में गूँजते हुये भौरे ऐसे प्रतीत हो रहे थे मानों उन्हें जगाने के लिये बन्दियों की तरह मंगल पाठ कर रहे हों, कहीं हाथियों के गण्डस्थल पर भिनभिनात हुये ऐसे प्रतीत हो रहे थे मानो उन्हें जगाने के लिये डिण्डिम बाजा बजा रहे हों और कहीं संकुचित कुमुदिनियों के सम्पुटों में पंखों के फँस जाने के कारण वे क्रुद्ध होकर हुङ्कार कर रहे थे। कहीं प्रातःकालीन वायु के शीतल थपेड़ों से जंगली हरिनों की अलसायी आँखें खुलने लगी थीं—उनकी भूरी-भूरी
१. रति०।
२. ॰॰॰स्वेदजलकणिका, स्वेदकणिका॰॰॰।
३. ॰॰॰खण्ड।
४. 'वन' इति क्वचिन्नास्त्यपि।
५. मधुलिहां पंटलेषु।
६. विघटमान, घनघटमान।
७. निबद्ध॰॰॰।
८. झङ्कारिषु, टङ्कारेषु।
९. वाय्वा-हतम्।
१०. पद्मेर्मेणलूमिव।
११. जिह्मातारम्, जिह्विततारकम्।