कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 131, कुल 709 में से
संदर्भ में पढ़ें| ८२ | कादम्बरी- | [ कथामुखे- |
|---|
साष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलाय-निलीननिभृत-शुक-शावकसनायेऽपि निःशब्दतया शून्य इव तस्मिन् वनस्पतौ, स्वनीडावस्थित एव ताते, मयि च शैशवादसञ्जातवले समुद्भिद्यमानपक्षपुटे पितुः-समीपवर्त्तिनी कोटरगते, सहसैव तस्मिन् महावने संत्रासितसकलवनचरः सरभसमुत्पतत्पत्तिपक्षपुट-सन्ततः भीत-करिपोत-चीत्कारपीवरः प्रचलित-मत्तालिकुलक्व णितमांसलः परिश्रमदुद्धोण-वन-वराह-रर्वघर्घरः गिरिगुहा-सुप्त-प्रबुद्ध-सिंहनादोपवृंहितः, कम्पयन्निव तरून् भगीरथा-वर्त्तार्य्यमाण-गङ्गाप्रवाहक लकल-बहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत् ।
अष्टमसमयेनेव दिवसस्य वासरस्य अष्टमभागं चतुर्घटिकात्मकं भजत इति तस्मिन् तथोक्ते, अत एव स्पष्टाः सर्वासु दिक्षु स्फुटा भासः कान्तयो यस्य तथोक्ते, भूते जाते सति । इह नचिरादिवेत्यस्य गुणपदार्थत्वाद् गुणोद्वेचा ।
प्रयातेष्विति । शुककुलेषु कीरवन्देशु यथानिमतानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु वाहारानयनाय गतेषु सत्सु । कुलायेषु नीडेषु 'कुलायो नीडमस्त्रियाम्' इत्यमरः, निलीनाः प्रच्छन्नाः निमृता निश्चला निःशब्दा इत्यर्थः, ये शुकशावकाः कीरशिशवः तैः सनायेऽपि संयुक्तेऽपि तस्मिन् वनस्पतौ शाल्मलीद्रुमे शून्य इव निखिलप्राणिवर्जित इव विद्यमाने सति । शून्य इवेति वाच्य। क्रियोत्प्रेक्षा ।
स्वनीडेति । ताते मम पितरि मयि वैशम्पायने च स्वनीडावस्थित एव स्वकुलाये तिष्ठत्येव शैशवाद् बाल्याद्धेतोः असञ्जातम् अनुत्पन्नं वलन् उत्पतनादिशक्तिः यस्य तस्मिन् तथोक्ते, तथा समुद्भिद्यमानं यथाक्रमं द्योतमानं पक्षपुटं पतत्त्रद्वयं यस्य तस्मिन् तथोक्ते मयि च, तातस्य पितुर्जकस्य समीपवर्त्तिनि निकटस्थायिनि सति कोटरगते स्वकुलायाधारतलमध्यस्थिते सति ।
सहसैवेति । तस्मिन् पूर्वोक्ते महावने महारण्ये सहसैव लक्स्मादेव मृगया आखेटकः तस्याः कोलाहलध्वनिः कलकलनिनादः उद्चरत उत्पन्नोऽभूत् इत्यन्वयः । सन्न प्रयमान्तपदानि उक्तध्वनेविंशेषणानि संत्रासिताः त्रासं प्रापिताः सकलाः समस्ता वनचरा अरण्यचारिणो येन स तथोक्तः सरभसं त्रासेन सवेगम् उत्पतताम् उड्डयनं विदधतां पत्त्रिणां पक्षिणां पक्षपुटैः पतत्त्वद्वयशब्देः सन्ततः सम्यग्विधिना विस्तीर्णः, भीतानां त्रासमुपगतानां करिपोतानां गजशिशूनां (कलभानां) चीत्कारैः विपुलव्यथासूचक- ध्वनिभिः पीवरः स्थूलः पुष्ट इत्यर्थः । प्रचलितस्य त्रासेन स्वस्थानात् प्रयातस्य मत्तस्य पुष्परसपानेनोन्मत्तस्य अलिकुलस्य भ्रमरसमूहस्य क्वणितेन अस्फुटशब्देन मांसलः पीवरः । परिश्रमतां त्रासेन इतस्ततः सञ्चरताम् उद्धोणानाम् उन्नतनासाग्रसहितानां वनवराहाणाम् आरण्यकशूकराणां रखैः आर्तशब्द घर्घरः 'घर घर' इत्येवं रूपशब्देन कठिनः । गिरिगुहातु पर्वत कन्दरासु सुप्ताः पूर्वं निद्रिताः पश्चात् प्रबुद्धाः आखेटकोलाहलेन उत्थिताः ये सिंहाः केसरिणः तेषां नादैत् ध्वनिना उपवृंहितः वृद्धिं गतः ।
कम्पयन्निति । भागीरथेन तत्संज्ञसूर्यवंशीयनृपतिना अवतार्यमाणः तुहिनाचलात् पृथिव्यां नीयमानो यो गङ्गाप्रवाहः जाह्नवीस्त्रोतः तस्य कलकल इव कल्लोल इव बहलः बहुलीकृतः, तथा भीताभिः त्रस्ताभिः
था । सभी सुग्गे अपनी अपनी मनचाही दिशाओं की ओर उड़ गये थे । यद्यपि बच्चे घोसलों में रह गये थे लेकिन उनकी चुप्पी से वह वृक्ष अत्यन्त नीरव ( शब्द हीन) और सूना सा जान पड़ता था। मेरे पिता भी अपने घोंसले में ही थे और मैं भी उसी में उनके पंखों से चिपका हुआ पड़ा था। बचपन के कारण मुझ में अभी शक्ति नहीं आई थी और पंख तो अभी फूट ही रहे थे। सहसा ही उस हांके को सुनकर सारे वनचर भयभीत हो उठे, पक्षी व्याकुल होकर पंख फड़फड़ाने लगे, मदभीत हाथियों के बच्चे एक साथ चिंघाड़ने लगे, उड़ते हुए मतवाले भौरों की घनी गुंजार वनबनाने लगी, घूमते हुए दनैलै सूअर घूयन उठा-उठाकर घुरघुराने लगे, पहाड़ी गुफ़ाओं में सोये हुए सिंह जागकर दहाड़ने लगे और जंगल के सारे वृक्ष मानो काँपकर थरथराने लगे । उस समय की सभी ध्वनियां एक साथ मिलकर ऐसी प्रतीत होती थीं मानो भगीरथ के पीछे उतरने-
१. ष्टमभागभाजि । २. इह च इत्यधिकः पाठः क्वापि दियते । ३. कुलाय-निभृतशावक । ४. ०सञ्जात-बलसमु००० । ५. तातस्य । ६. सततं सरभसमुत्पतत्००० । ७. प्रचलितलत्वालुकुलिव, प्रचलित-लवाकुल-मत्तालिकुल०००। ८. वराहगर्दूरकठोरः । ९. नादबृंहितः । १०. ०००भावार्थ्यमान००० ।