कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 146, कुल 709 में से
संदर्भ में पढ़ेंशबरचरित्रवर्णनम् ] चन्द्रकला-विद्योतिनीसहित । ६७
कृष्णमप्यसुदर्शनम्, स्वच्छन्दप्रचारमपि दुगैकशरणम्, क्षितिभृत्पादानुवर्त्तिनमपि राज-सेवानभिज्ञम्, अपत्यमिव विन्ध्याचलस्य अंशावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सारथिमिव कलिकालस्य भीषणमपि महासत्त्वतया गभीरमिवोपलक्ष्यमाणम्, अनभिभवनीयाकृतिम्, मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानन्तु तस्य पश्चादह-मश्रौषम् । आसीच्च मे मनसि—'अहो ! मोहप्रायमेषां जीवितम्, साधुजन-विगर्हितश्च वरि-
करणं येन तं तादृशमपि फलमूलान्येव अशनं भक्षणं यस्य तं तादृशमिति विरोधः, कृतः सारमेयाणां शुनां संग्रहो येन तादृशमिति तत्समाधानम् । उक्तालंकारः ।
कृष्णमिति । कृष्णं नारायणमपि असुदर्शनं सुदर्शनचक्रेण रहितमिति विरोधः, 'चक्रं सुदर्शनम्' इत्यमरः, कृष्णं कालवर्णम् अत एव असुदर्शनं भयोत्पादकत्वेन भीमदर्शनमिति तत्समाधानम् । उक्ता-लङ्कारः ।
स्वच्छन्देति । स्वच्छन्देन स्वाभिप्रायेण प्रचारो भ्रमणं यस्य तं तथोक्तमपि दुर्गं दुर्गमं नगरम् एकम् अद्वितीयं शरणं गृहं यस्य तं तादृशमिति विरोधः, दुर्गा भवानी देवी एकम् अद्वितीयं शरणं रक्षिका यस्य तं तादृशमिति तत्समाधानम् 'शरणं गृहरक्षित्त्रोः' इत्यमरः । उक्तालंकारः ।
क्षितीति । क्षितिभृद् राजा तस्य पादौ चरणौ तदनुवर्त्तिनमपि तत्सेवाविधायिनमपि राजसेवा नृप-परिचर्या तस्या अनभिज्ञम् अज्ञातामिति विरोधः, क्षितिभृत् पर्वतः तस्य पादे प्रत्यन्तपर्वते 'पादाः प्रत्य-न्तपर्वताः' इत्यमरः, अनुवर्त्तते अवतिष्ठत इति तं तादृशमिति तत्परिहारः । उक्तालंकारः ।
अपत्यमीति । विन्ध्याचलस्य जलवालकपर्वतस्य अपत्यं सन्तानमिव अत्यन्तकठिनशरीरत्वात् । कृता-न्तस्य यमस्य 'कृतान्तो यमुनाभ्राता शमनो यमराड्यमः' इत्यमरः, अंशावतारमिव एकदेशावतारमिव जीवसंहारात् । पापस्य अधर्मस्य सहोदरमिव सोदरमिव जीवानां तीव्रयातनाविधायित्वात् । कलिकालस्य कलियुगस्य सारथिमिव यन्तारमिव निरन्तरधर्मोत्पादनेन सञ्चालकत्वात् । उक्तस्थलेषु जात्युत्प्रेक्षा । भीषणमपि भयजनकमपि तृणनिक्षेपादिनिकृष्टाचारण निःसत्त्वजीवानां त्रासोत्पादनात् चञ्चलस्वभावम-पीत्यर्थः महासत्त्वतया प्रबलोत्साहस्वभावतया गम्भीरमिव धैर्यगुणयुक्तमिव उपलक्ष्यमाणम् अन्यैः परि-दृश्यमानम् । इह गाम्भीर्यं गुण इति तदुत्प्रेक्षणाद्गुणोत्प्रेक्षा ।
अनभीति । अनभिभवनीया अतिरस्करणीया आकृतिः स्वरूपं यस्य तं तादृशम्, अत्यन्तकर्कशत्वेन दुर्द्धर्षत्वादित्याशयः । मातङ्गनामानं मातङ्गेतिसंज्ञकं शबरसेनापतिं किरातसैन्यस्वामिनम् अपश्यम् अद्राक्षम् । केवलदर्शनेन नामावबोधः कथमित्याशङ्कायामाह—अभिधानन्त्विति । तस्य सेनापतेः अभिधानं संज्ञां अहं वैशम्पायनः पश्चात् तदवलोकनानन्तरम् अश्रौषं भृत्यमुखादाकर्णयम् । एवञ्च सम्प्रति तन्नामा-भिधाने न काचिद्विप्रतिपत्तिरित्याशयः ।
आसीदिति । मे मम मनसि हृदये आसीद् अभूत्—चिन्तेति शेषः । तदेव उपपादयति—अहो ! इत्यादिना । अहो ! इत्याश्चर्ये, 'आहो उताहो किमुत' इत्यमरः, मोहाऽविवेकः प्रायो बहुलं यत्र तथोक्तम्,
का संग्रह करते हुए भी फल-मूल खाने का अभिलाषी था, श्यामल शरीर के कारण कृष्ण के समान होते हुए भी असुदर्शन (सुदर्शनचक्र रहित, कुरूप) था, स्वच्छन्दचारी होने पर भी दुर्गैकशरण (किले में रहने वाला, भगवती दुर्गा का एक मात्र था) और क्षितिभृत् (पर्वत-राजा) के चरणों का अनुगमन करने पर भी राज सेवा से अपरि-चित था । वह मानो विन्ध्याचल का पुत्र था, यमराज का अंशावतार था, पाप का सगा भाई था और कलिकाल का नियुक्त हुआ अंश था । भयंकर होते हुए भी वह अत्यधिक पराक्रम के कारण अत्यन्त गम्भीर भी था । उसकी आकृति में ऐसा प्रभावशाली व्यक्तित्व था जिसकी उपेक्षा नहीं की जा सकती थी । जैसा कि मुझे पीछे मालूम हुआ, उसका नाम मातंग था ।
उन भीलों को देखकर में मन ही मन सोचने लगा—अहा ! इन लोगों का जीवन कितना विवेकहीन
१. स्वच्छन्दचारमपि । २. विन्ध्यस्य । ३. सारमिव । ४. अनभिभवत्प्रकृतिन् । ५. मातङ्गक-नामानम् । ६. सर्वंशबर । ७. 'तस्य' इति पदं क्वचिन्नोपलभ्यते । ८. घोरप्रायम्, मोहिप्रायम्, एतेषाम् । ९. ॰॰॰निर्वाहितम् ।
१३ का० कथा०