कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 151, कुल 709 में से
संदर्भ में पढ़ें| १०२ | कादम्बरी- | [कथामुखे- |
|---|
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमवलोक्य द्विगुणतरोपजातवेपथुमंरणभयादुद्भ्रान्ततरलतारकां विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कताल्वप्रतीकाराक्षमः त्रासस्रस्तसन्धि-शिथिलेन पक्षपुटेनाच्छाद्य मां तत्कालोचितप्रतीकारं मन्यमानः स्नेहपरवशो मद्रक्षणाकुलः किंकर्त्तव्यताविमूढः क्रोडभागेन मामवष्टभ्य तस्थौ।
असावपि पापः क्रमेण शाखान्तरैः संञ्चरमाणः कोटरद्वारमागत्य जीर्णसितभुजङ्गभोगभीषणं प्रसार्य विविधवनवराहवसाविस्रगन्धि करतलम् अनवरतं कोदण्डगुणा-
कीरशिशून् जग्रहीत् आदत्त, च पुनः अपगतासून् विगतप्राणान् कृत्वा विधाय क्षितौ पृथिव्याम् अपातयत् अक्षिपत्। एषु हि 'किमिव हि दुष्करम्' इत्यर्थापत्तिः 'सोपानैरिव' इत्यत्र जात्युत्प्रेक्षा, 'शाल्मलीकुसुमशङ्कामुपजनयत इव' इत्यत्र पदार्थहेतुककाव्यलिङ्गसंमिश्रो भ्रान्तिमान्, 'नलिनसंवर्तिकारिण' इत्यत्र 'लर्क्फलसदृशान्' इत्यत्र न लार्थी उपमा, 'कमलमुकुलानां श्रियमुद्वहतः' इत्यत्र निदर्शना, 'निवारयत इव' इत्यत्र सापह्नवक्रियोत्प्रेक्षा, 'फलानीव' इत्येतोपमा । 'किमिव हि दुष्कराणाम्' इत्यस्यव हि 'यतः स' इत्यादिना समर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः, अयमेव हि प्रधानम एतस्यैव चार्थोपत्यादयोऽङ्कमिति सङ्करोलङ्कारः।
तात इति। तातस्तु मज्जनकस्तु क्रोडभागेन मामवष्टभ्य तस्थौ इति सम्बन्धः। महान्तं दीर्घतरम् अकाण्ड एव असमय एव प्राणहरं जीवितविनाशनम् अप्रतीकारम् अचिन्तितम्य उपप्लवं विपदम् उपनतम् आगतम् अवलोक्य निरीक्ष्य, द्विगुणतरः पूर्वं शरीरशैथिल्येन यावान् कम्प आसीत्तद्द्विगुणतर इत्यर्थः, उपजातः उत्पन्नो वेपथुः कम्पा यस्य स तादृशः, मरणभयात् मृत्युत्रासात् उद्भ्रान्ते उद्भ्रमिते तरले चञ्चले तारके कनीनिके यस्याः तां यादृशीम्, विषादेन शोकेन शून्यां लक्ष्यरहिताम्। दृशं लोचनम् इतस्ततः समन्ततो दिक्षु आशासु विक्षिपन् विस्तारयन्, उच्छुष्कम् प्राबल्येनाछिन्नं तालु काकुदं यस्य स तादृशः, आत्मनो निजंस्य चः प्रतीकारो विपन्निवृत्त्युपायः तत्र सक्षमः अशक्तः, त्रासेन भीत्या स्रस्तैः विदीणैः सन्धिभिः अस्थिबन्धेः शिथिलेन श्लथेन पक्षपुटेन छुदद्वयेन मां वैशम्पायनम् आच्छाद्य आवृत्य तत्काले तत्क्षणे उचितप्रतीकारम् इदमेव योग्योपायं मन्यमानः जानन् स्नेहपरवशः प्रेम्णा पराधीनः मद्रक्षणाकुलो मत्राणव्यग्रः किंकर्तव्यताविमूढः किमिदानीं मया कर्त्तव्यं विधेयमित्यत्र विषये सन्दिग्धबुद्धिः क्रोडभागेन उत्सङ्गप्रदेशेन माम् अवष्टभ्य अवलम्बनं, विधाय आवृत्यथंः, तस्थौ तस्थिवान्।
असावपीति। असौ वृद्धचाण्डाळोऽपि पापः पापिष्ठः अतिनृशंसः अत्यन्तक्रूरः क्रमेण पर्यायेण शाखान्तरैः स्कन्धान्तरैः सञ्चरमाणः प्रवर्त्तमानः कोटरद्वारम् अस्मदधिनिष्कुहद्वारम् आगत्य प्राप्य तातं गतासुमकरोदित्यन्वयः। जीर्णस्य परिणतवयसः असितस्य श्यामवर्णस्य भुजङ्गस्य सर्पस्य 'सर्पः पृदाकुर्भुजगो भुजङ्गः' इत्यमरः, भोगः शरीरं तद्वत् भीषणं भयदम्, 'भोगः सुखे रुच्यादिभृतावहेश्च फणका-
दिलाकर 'नहीं' 'नहीं' कह रहे हो। वह बूढ़ा उन्हें एक-एक करके इस प्रकार फेंक रहा था मानों सेमर का फल तोड़-तोड़कर गिरा रहा हो।
मेरे पिता ने भलीभाँति समझ लिया कि यह एक बहुत बड़ी आकस्मिक प्राणनाशक विपत्ति आ गई है। अब इससे बचने का कोई उपाय नहीं है, इसलिये भय के कारण उनके शरीर की कँपकँपी दूनी हो गयी; मृत्यु के भय से उनकी पुतलियाँ उलटने-सी लगीं और वह दुःख से सूनी-सूनी आँसू भरी आँखों से इधर-उधर देखने लगे। उनका तालू सूख गया, उनमें अपने को बचा पाने की कोई शक्ति न रह गयी। भय के कारण उनके सभी अङ्ग ढीले पड़ गये तथा पखने और भी लटक गये। वह मेरी रक्षा के लिये व्याकुल हो उठे। मेरे प्रेम ने उन्हें इतना विवश कर दिया कि मुझे अपने पंखों से ढँककर छाती से चिपका लिया और हक्का-बक्का होकर चुपचाप बैठ गये। उस समय उन्हें मेरी रक्षा का यही उपाय सूझ पड़ा।
वह पापी धीरे-धीरे डालियों से होता हुआ मेरे खोखले के द्वार पर आ पहुँचा। उसने काले बूढ़े
१. अतिमहान्तम्। २. आलोक्य। ३. ०००तरलतारको०००तरलतारकालु, ०००तारकाम्। ४. पक्षकर्मणेति पदं न विद्यते। ५. ०००विमिश्र०००। ६. इह 'अनवरतं'ति पदं क्वचिक्षस्ति।