कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 172, कुल 709 में से
संदर्भ में पढ़ेंजाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १२३
त्रिपुण्ड्रकंम्, न्यस्यमान-वेत्रदण्डम्, आपूर्य्य-कमण्डलुम्, अदृष्टपूर्वं कलिकालस्य, अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवन-वन्दितम्, असुरारिमिव प्रकटितवराहनरसिंहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मधुरोपवनमिव बलावलीढ-दर्पित-धेनुकम्, उदयनमिवानन्दितवत्स-कुलम्, किम्पुरुषाधिराज्यमिव मुनिजनगृहीतकलशा-
न्यस्येति । न्यस्यमानः दूरादेत्य पृथिव्यां स्थाप्यमानः वेत्रदण्डः वेतसलगुडो यस्मिन् तं तादृशम् ।
आपूर्येति । आपूर्यमाणः सलिलैः क्रियमाणः कमण्डलुः पूजनार्हं जलधारपात्रविशेषो यत्र तं तादृशम् एतेषु यत्र यथायोग्यं तत्र कर्तृपदं 'कैश्चित्' 'केनचित्' इत्यादिकं निवेशनीयम् ।
अदृष्टेति । कलिकालस्य कलियुगस्य नास्ति दृष्टम् अवलोकनं पूर्वं यस्मिन् तं तादृशम् । एवमपरयोरपि । कलिप्रवेशार्हमित्याशयः, अनेन सर्वथा अधर्माभाव इति प्रतीयते । अनृतस्य असत्यस्य अपरिचितम् अपरिचयः, सततं सत्याचारादित्याशयः । अनङ्गस्य कामदेवस्य, अश्रुतपूर्वम् अनाकर्णितपूर्वम्, कामजनितविकारानुपलम्भादित्याशयः ।
अब्जयोनिमिति । अब्जयोनिमिव प्रजापतिमिव, त्रिभुवनवन्दितं जगत्त्रयपूजितम्, असामान्यधर्मस्थानत्वात् सृष्टिकर्तृत्वाच्चेत्याशयः ।
असुरेति । असुराः राक्षसाः तेषाम् अरिः शत्रुः विष्णुः तमिव, 'रिपौ वैरिसपत्नारि' इत्यमरः, प्रकटितानि प्रकाशितानि वराहाः शूकरः, नरा मनुष्याः, सिंहा मृगेन्द्राः, रूपाणि मृगाश्च येन तं तादृशम्, 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः, पक्षे—प्रकटिते व्यक्तीकृते वराहनरसिंहयोः 'शूकरावतार-नृसिंहावतारयो रूपे स्वरुते येन तं तादृशम् ।
सांख्यमिति । सांख्यं कपिलदर्शनम् तद्विव, कपिलया कनकाङ्ग्या गवा, कपिलेन सांख्यशास्त्रनिर्माता ऋषिविशेषेण च अधिष्ठितम् आश्रितम् ।
मधुरेति । मथुराया एतन्नामप्रसिद्धाया नगर्य्याः उपवनमिव द्वादशवनेषु गर्भितम् अरण्यमिव' बलावलीढाः शारीरिकशक्तियुक्ता अत एव दर्पिताः समुत्पन्नगर्वाः धेनवो नवप्रसवा गावो यत्र तं तादृशम् । अत्र 'शेषाद्विभाषा' इत्यनेन वैकल्पिककप्प्रत्ययः । पक्षे तु—बलावलीढः शक्तिमान् दर्पितो गर्वितश्च धेनुक एतन्नामा दैत्यो यस्मिन् तं तादृशम् ।
मथुरायां धेनुकासुरं श्रीकृष्णो निहतवानिति श्रीमद्भागवतीया कथा ।
उदेति । उदयनम् एतत्संज्ञकं पाण्डवकुलोत्पन्नं कौशाम्बीनृपतिमिव, आनन्दितं तृणसलिलदानादिना परितोषितं वत्सकुलं गोवत्सगणो यत्र तं तादृशम्, पक्षे—आनन्दितं सदाचरणादिना सन्तोषिनं वत्सकुलं वत्सप्रान्तीयजनमण्डलं तं तादृशम्, तस्य वत्सप्रान्तनृपत्वात् ।
पुरा किल वत्सदेशाधिपतिरुदयनः स्वाः स्वाः प्रजा नीतिमार्गेण संरक्षन् ताः सन्तोषयामासेति कथा सोमदेवभट्टविरचिते कथासरित्सागरे जिज्ञासुरभिरवलोकनीया ।
किम्पुरुषेति । किम्पुरुषाणां किन्नराणाम् अधिराज्यं प्रभृत्वमिव, मुनिजनैः ऋषिगणैः गृहीताः आत्ताः कलशाः सलिलपूर्णघटाः तैः अभिषिच्यमाना अभिषेकं प्राप्यमाना द्रुमा वृक्षा यत्र तं तादृशम्, पक्षे-मुनिजनगृहीतकशशैः ऋषिगणगृहीतघटैः अभिषिच्यमानः द्रुमो नामाधिपतिः यस्मिन् तत् तादृशम् ।
जा रही थीं, कहीं त्रिपुण्ड धारण किया जा रहा था, कहीं बेंत के डण्डे रखे जा रहे थे और कहीं कमण्डलुओं में जल भरा जा रहा था। उस आश्रम को कलियुग ने कभी देखा भी न था, झूठ ने कभी उधर झाँका भी न था और काम ने उसके विषय में कभी सुना भी न था। वह ब्रह्मा के समान तीनों लोकों द्वारा वन्दनीय था। वह भगवान् विष्णु के समान नृसिंह, वराह रूप प्रकट करने वाला था (भगवान् विष्णु ने नृसिंह और वराह का रूप धारण किया था, उस आश्रम में मनुष्य, सिंह, शूकर और मृग पाये जाते थे), वह सांख्य दर्शन के समान कपिलाधिष्ठित था (कपिल मुनि सांख्य दर्शन के प्रणेता थे, उस आश्रम में अनेक सीधी-सादी सफेद गायें थीं), मथुरा के उपवन के समान शक्तिशाली और अभिमानी धेनुक वाला था (मथुरा के उपवन में अत्यन्त बली और अभिमानी धेनुक नाम का राक्षस रहता था, उस आश्रम में तगड़ी और मरखानी नई ब्याई गायें
१. त्रिपुण्ड्रकूर्ध्वमान । २ विदण्टकम्, सरिक्यमानपरिम्राजकम् । ३. नरहरिवराहरूपम् । ४. मधुरोपवनमिव । ५. जलकल्शा ।