भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 178, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 178

अथ जावालिवर्णनम्

तस्य चैवंविधस्य मध्यभागमलङ्कुर्वाणस्य, अलक्तकलोहित-पल्लवस्य मुनिजना- लम्बित-कृष्णाजिन-जल-करङ्क-सनाथशाखस्य तापसकन्याभिर्मूलभाग-दत्त-पीत-पिष्टातका- नेक पञ्चाङ्गुलस्य हरिणशिशुभिः परिपीयमानालवाले-सलिलस्य मुनिकुमारकाबद्ध-कुशचीर- दाम्नो हरितगोमयोपलेपन-विविक्ततलस्य, तत्क्षण-कृत-कुसुमोपहार-रमणीयस्य नातिमहतः परिमण्डलया विस्तीर्णावकाशस्य रक्ताशोकतरोरधश्छायायामुपविष्टम्, अत्युग्रतपोभि-

तस्येति । एवंविधस्य पूर्वोक्तदिशा वर्णितस्य तस्य आश्रमस्य मध्यभागं मध्यदेशम् अलङ्कुर्वाणस्य शोभमानस्य, रक्ताशोकतरोरधश्छायायामुपविष्टं 'भगवन्तं जाबालिमपश्यम्' इति वक्ष्यमाणक्रियया सम्बन्धः । अत्र षष्ठ्यन्तानि पदानि रक्ताशोकतरोः, द्वितीयान्तानि च जाबालिमित्यस्य विशेषणानि बोध्यानि । अलक्तकवद् यावकवद् आलोहितानि किञ्चिद्रक्तानि पल्लवानि किसलयानि यस्य तस्य तादृशस्य । मुनिजनैः ऋषिगणैः आलम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृगचर्माणि जलकरङ्काः नारिकेलास्थिरचिताः पात्रविशेषाश्च घटा जलकरङ्काः जलरक्षणार्थं कमण्डलयः तैः सनाथाः संयुता शाखाः स्कन्धा यस्य तस्य तादृशस्य । 'करङ्को मस्तके शस्थे नारिकेलाफलास्थिनि' इति विश्वः । 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मद्योपले न स्त्री करङ्के च कमण्डलौ ॥' इति मेदिनी ।

तापसकन्याभिः मुनिकुमारिकाभिः मूलभागे आलवाले मूलप्रदेशे दत्तानि निहितानि पीतपिष्टातकैः हरिद्रारूपपटवासचूर्णैः अनेकानि विविधानि पञ्चाङ्गुलानि करस्य पञ्चाङ्गुललक्ष्मणि यस्य तस्य तादृशस्य । हरिणशिशुभिः मृगबालकैः परिपीयमानं समन्तादास्वाद्यमानम् आलवालस्य मूलप्रदेशस्थावापस्य सलिलं जलं यस्य तस्य तादृशस्य । मुनिकुमारकैरिति ऋषिबालकैः आबद्धानि समन्तात्परिवेष्टितानि कुशचीराणां दर्भैः विधास्यमानवस्त्राणां दामानि रज्जवो यस्मिन् तस्य तादृशस्य । हरितेन हरिद्वर्णेन सरसेन गोमयेन गोः-पुरीषेण यदुपलेपनं तेन विविक्तं पूतं तलम् अधोदेशो यस्य तस्य तादृशस्य । तस्मिन्नेव क्षणे काले कृतेन विहितेन कुसुमोपहारेण पुष्पढौकनेन रमणीयस्य कमनीयस्य । नातिमहतो नातिविस्तृतस्य परिमण्डलतया गोलाकारतया धारणेन विस्तीर्णः अतिदीर्घः अवकाशः अधःस्थायो छायाप्रदेशो यस्य तस्य तादृशस्य । रक्तानां लोहितानाम् अशोकानां पुष्पाणां तरुः वृक्षः तस्य अधश्छायायां नीचस्थानातपे 'छाया सूर्य-प्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । उपविष्टम् आसीनम् ।

अत्युग्रेति । अत्युग्राणि अतितीक्ष्णानि तपांसि येषां तैस्तादृशैः महर्षिभिरित्यस्य विशेषणानि ।


इस प्रकार उस आश्रम के बीच एक लाल अशोक का पेड़ उसकी शोभा बढ़ा रहा था। उसके पत्ते आलते के समान लाल-लाल थे, उसकी डालियों पर मुनियों ने अपने काले-काले मृगचर्म और जल से भरे कमण्डलुओं को लटका दिया था, उसकी जड़ पर मुनियों की कन्याओं ने पीले पेषन (हल्दी और चावल की बुकनी मिलाकर बनाया गया लेप) के थापे (पाँचों उँगलियों सहित हथेलियों की छाप) लगा दिये थे, हरिण के छोटे-छोटे बच्चे उसके थाँवले में भरा हुआ जल पी रहे थे, उसके चारों ओर मुनियों के बालकों ने कुश के बने हुए वस्त्रों की करधनी की तरह लपेट दिया था, उसके नीचे की भूमि हरे गोबर से लीपकर पवित्र कर दी गयी थी और उस पर तटके फूल चढ़ाये गये थे जिससे वह और भी रमणीय लग रहा था। यद्यपि वह बहुत बड़ा नहीं था किन्तु मण्डल बाँधकर फैलने के कारण उसके नीचे बहुत दूर तक छाया रहती थी। मैंने भगवान् जाबालि को


१. मध्यभागमण्डनम्
२. अलक्तलोहित... ।
३. रोलपल्लवस्य ।
४. ॰॰लम्बिन ।
५. ॰॰करक॰॰॰ ।
६. ॰॰कुमारिकाभिरालवालदत्त॰॰॰ ।
७. पीतपिष्ट॰॰॰ ।
८. पीयमान॰॰॰आपीयमान ।
९. आन्वालक॰॰॰ ।
१०. ॰॰द्वन्द्वित॰॰॰ ।
११. ॰॰भूतलस्य ।
१२. ॰॰रचित॰॰॰ ।
१३. व्यग्रतपोभिः ।

१७ का० कथा०