भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 180, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 180
जाबालिवर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।१३१

स्तरोः कुसुम-मञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभमानम्, उपरचित-भस्म-त्रिपुण्ड्रकेण तिर्यक्प्रवृत्त-त्रिपथगा-स्रोतस्त्रयेणेव हिमगिरि-शिलातलेनेव ललाटफलकेनोपेतम्; अधोमुख-चन्द्र-कलाद्वगभ्यामवलम्बित-वलि-शिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यमान-दृष्टिम्, अनवरत-मन्त्राभ्यास-विवृताधरपुटया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रिय-वृत्ति-भिरिव विद्यागुणैरिव करुणारस-प्रवाहैरिव दशनमयूखैर्धवलित-पुरोभागम्, उद्वमदमल-

अत्यन्तवृद्धिमुपगतस्य तप एव तरुः वृक्षः तस्माद् उद्गताभिः उत्पन्नाभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव जटाभिः सटाभिः उपशोभमानं भूषितम्।

अत्र 'वर्णपताकाभिरिव' इत्यत्र 'पुण्यरज्जुभिरिव' इत्यत्र च जात्युत्प्रेक्षालङ्कारः 'तपस्तरोः' इत्यत्र निरङ्गकेवलंरूपकम् 'कुसुममञ्जरीभिरिव' इत्यत्र हि जात्युत्प्रेक्षयोरैकाश्रयानुप्रवेशरूपसाङ्कर्यात् सङ्करालङ्कारः ।

उपरचितेति । उपरचितानि विहितानि भस्मना त्रीणि पुण्ड्रकाणि तिर्यग्रेखामयतिलकानि यत्र तेन तादृशेन । अत एव तिर्यक्प्रवृत्तं कुटिलभावेन प्रचलितं त्रिपथगाया गङ्गायाः स्रोतस्त्रयं त्रिप्रवाहो यत्र तयो-दतेन, हिमगिरेः हिमालयस्य शिलातलेनेव पाषाणफलकेनेव ललाटफलकेन भालपट्टकेन उपेतं युक्तम् ।

इहोक्तविधशिलातलाप्रसिद्धेर्द्रव्योत्प्रेक्षा ।

अधोमुखेति । अधोमुखी निम्नायिता या चन्द्रकला सुधांशुरेखा तस्या आकारः स्वरूप इव आकारो ययोस्ताभ्यां तादृशाभ्याम्, अवलम्बिता वार्द्धक्यादाश्रिता या वलिः शिथिलं चर्म, तया च—‘वलिर्दैत्य-प्रभेदे च करचामरदण्डयोः । उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि ॥’ इति मेदिनी । तया शिथिलाभ्यां शैथिल्यान्नेत्रोपरि च्युताभ्यामित्यर्थः, अत एव ताभ्यां भ्रूलताभ्याम् अवष्टभ्यमाना अवलम्ब्यमाना दृष्टिः अवलोकनसामर्थ्यं यस्य तं तादृशम् ।

इह 'चन्द्रकलाया आकार इव आकार' इत्यत्र आर्थी समासगता लुप्तोपमा ।

अनवरतेति । अनवरतं निरन्तरं यो मन्त्राभ्यासः मन्त्रजपावृत्तिः तेन विवृतं व्याप्तम् अधरपुटम् ओष्ठद्वयं यस्य तस्य भावस्तया कारणेन, निष्पतद्भिः निस्सरद्भिः, अतिशुचिभिः अत्यन्तस्वच्छैः, सत्यप्ररोहै-रिव सत्यवचनसत्याचारयोरुद्गमैरिव, स्वच्छा अवदाताः पापरहिता या इन्द्रियवृत्तयः चित्तादीनामि-न्द्रियाणां कर्माणि ताभिरिव, विद्यागुणैरिव विद्याया आन्वीक्षिक्यादेः ये गुणा विनयादयस्तैरिव, करुणारस-प्रवाहैरिव दयारसस्रोतोभिरिव सर्वस्मिन् स्थले स्वच्छत्वादित्याशयः । दशनमयूखैः दन्तरश्मिभिः धव-लितः शुभ्रीकृतः पुरोभागः अग्रदेशो यस्य तं तादृशम् । अत एव उद्वमन् दक्षिणश्रोत्राद्वहिरागच्छन् अमलः स्वच्छो गङ्गाप्रवाहो भागीरथीस्रोतो यस्मात्तं तादृशं जह्नुम् एतत्संज्ञकमृषिमिव विद्यमानम् ।

अत्र 'सत्यप्ररोहैरिव' इत्यारभ्य 'करुणारसप्रवाहैरिव' इत्यन्तं यावत् वाक्यार्थहेतुकं काव्यलिङ्गा-लङ्कार उपमा च तथा गुणोत्प्रेक्ष्येतेषां मिथोऽङ्गाङ्गिभावेन साङ्कर्यात् सङ्करालङ्कारः ।

अत्रायमितिहासः— पुरा किल स्वपूर्वजानामुद्धितीर्षया भगीरथो हि हिमाचलाच्चलितामय च शङ्कर-जटायां लीनां गङ्गामवतारयितुं महेश्वरं सिषेवे, प्रसन्नो भगवान् सदाशिवः स्वशिरसस्तामवतारयामास ।


अथवा दूर तक फैले हुए पुण्यरूपी वृक्ष के फूलों की मञ्जरियाँ हों। भस्म के त्रिपुण्ड्र से उनका ललाट ऐसा प्रतीत होता था मानो गंगा की तीनों धाराओं से युक्त हिमालय पहाड़ की कोई चट्टान हो। उनकी भौंहों पर चन्द्रकला के समान टेढ़ी आकृति वाली तथा बुढ़ापे की झुर्रियों के कारण शिथिल भौंहें लटक रही थीं जिनसे देखने में कुछ बाधा उपस्थित हो रही थी। निरन्तर मन्त्रों का जाप करने के कारण उनका मुंह खुला रहता था और ओठों के बीच से दाँतों की उज्ज्वल किरणें फूटती थीं, जो सत्य के अङ्कुरों, इन्द्रियों की निर्मल वृत्तियों और करुणारस की धारा के समान लग रही थीं। उन किरणों से उनके आगे का भाग अत्यन्त उज्ज्वल हो उठता था और वे गंगा की अत्यन्त निर्मल धारा को मुँह से बाहर करते हुए जह्नु ऋषि के समान प्रतीत होते थे। वह ने निरन्तर सोमरस पीने के कारण आने वाली डकारों से उनकी साँसें सुवासित हो उठी थीं जिनसे खिन्न कर


१. गङ्गा ।
२. ॰॰॰प्रदेनेव॰॰॰तनेन ।
३. ॰॰॰ष्टेनोपेतम् ।
४. ॰॰॰मन्त्राभ्यासाभ्यास ।
५. क्वचिदयं पाठो नास्ति ।
६. करुणरस॰॰॰ ।