भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 229, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 229
१८०कादम्बरी-[ कथायाम्-

तथाहि कदाचिदुल्लसत्कठोर-कपोल-पुलक-जर्जरित-कर्णपल्लवानां प्रणयिनीनां चन्दन-जलच्छटाभिरिव स्मित-सुधाच्छविभिरभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः, कुङ्कुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रियमाण-लोलेलोचनः, धवलांशुकैरिव कर-नख-मयूख-जालकैराहन्यमानः, चम्पककुसुम-दल-मालिकाभिरिव भुजलताभिराबध्यमानः, दष्ट्राधर-धूत-करतल-चलनमणिवलय-कलकल-रमणीयम् , अतिरभस-

इह 'सुरकुञ्जरकर-पीवरेज' इत्यत्र प्रथमतृतीयान्ते लुप्तोपमा, द्वितीयतृतीयान्ते निरङ्गकेवलरूपकम्, तृतीयतृतीयान्ते अश्लिष्टशब्दनिबन्धनपरम्परितरूपकम्, षष्ठतृतीयान्ते निरङ्गकेवलरूपकलुप्तोपमयोः सन्देहः। 'सुहृदीव' इत्यत्र चोपमा।

अथ तारुण्यसुखानुभवप्रकारमेवोपपादयति-तथाहीत्यादिना । कदाचित् कस्मिंश्चित् समये अनङ्गपरवशः कामाधीनः सन् भूपतिः सुरतं मैथुनम् आततान विस्तारयामास इत्युत्तरेण सम्बन्धः। उल्लसद्भिः विकसद्भिः कठोरैः वेधनयोग्यत्वात् कठिनैः, कपोलयोः गण्डयोः पुलकैः रोमाञ्चैः जर्जरितानि कपोलोपरि-निपतनात् श्लथीकृतानि कर्णपल्लवानि श्रोत्रकिसलयानि यासां तादृशीनाम्, प्रणयिनीनां कामिनीनां चन्दनजलस्य मलयजसलिलस्य छटाभिः विन्दुसमूहैरिव, स्मितम् ईषद्धसितं सुधां पीयूषमिव स्मितमेव सुधा इति वा, तस्याः छविभिः शोभाभिः अभिषिच्यमानः क्षप्यमानः तत्कान्तीनां विशदत्वादित्याशयः। इह 'चन्दनजलच्छटाभिः' इत्यत्रोपमालङ्कारः 'स्मितसुधाच्छविभिः' इत्यत्र लुप्तोपमानिरङ्गकेवलरूपकयोः सन्देहसङ्करश्च, उभयोरपि परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः।

कर्णोत्पलैरिति । कर्णोत्पलैरिव श्रोत्रकुवलयैरिव लोचनांशुभिः नयनकान्तिभिः ताड्यमानः प्रहारविषयोक्रियमाणः तीक्ष्णकटाक्षपातादित्याशयः ।

कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिः चूर्णैरिव आभरणप्रभाभिः भूषणकान्तिभिः आकुलीक्रियमाणे व्याहन्यमाने अत एव लोले चपले लोचने नयने यस्य स तादृशः।

धवलेति। धवलांशुकैरिव शुभ्रवस्त्रैरिव, करनखानां हस्तपुनर्भुवां मयूखजालकैः रश्मिमण्डलैः आहन्यमानः, ताड्यमानः अतिनिकटतया तीक्ष्णपतित्वादित्याशयः ।

चम्पकेति । चम्पककुसुमानां हेमपुष्पकप्रसूनानां 'चाम्पेयश्चम्पको हेमपुष्पकः' इत्यमरः, दलमालिकाभिरिव मृदुलस्वादलपङ्क्तिभिरिव भुजलताभिः बाहुवल्लीभिः आवध्यमानः आलिङ्ग्यमानः। इह 'कर्णोत्पलैरिव' इत्यारभ्य 'चम्पककुसुमदलमालिकाभिः' इत्यन्तमुपमालङ्कारः ।

दष्टाधरेति । दष्टेन दन्तः खण्डितेन अधरेण रदनच्छदेन हेतुना, धूतं निषेधव्यञ्जनाय कम्पितं यत् करतलं पाणितले तत्र चलतां चपलीभूतानां मणिवलयानां रत्नकटकानां कलकलेन मधुराव्यक्तध्वनिसमूहेन रमणीयं मनोहरम्। अग्रेतनस्य 'सुरतम्' इत्यस्यैतद्विशेषणम्, इत्थमस्यान्यपि। अतिरभसेन अतिस्वरया दलितानि खण्डितानि यानि दन्तपत्राणि हस्तिदन्तरचितकर्णाभरणानि तैः दन्तुरं विषमं


पृथिवीके शासनकार्यमें विशेष लिप्त नहीं रहकर एवं सब शत्रुओंको शान्तभाव अवलम्बन कराकर निःशङ्क चित्त होकर उसने प्रायः यौवन-सुखका अनुभव किया।

जिस समय राजा, चन्दन-जलकी धाराके समान प्रिययुवतियोंके सुधामय ईषद्धास्यके शोभाजलसे अभिषिक्त होता था, उस समय उन प्रियाओंके गालोंपर अत्यधिक रोमाञ्च उत्पन्न होकर कर्णके पल्लवोंको जर्जरित करता था। कोई कोई प्रिययुवती, तीव्र कटाक्ष प्रहार करनेके समय कर्णके नीलोत्पलके समान नयन-किरण द्वारा राजाको ताड़न करती थी। केसरके धूलिसमूहके समान किसी-किसी युवतीके आभूषणोंकी प्रभासे राजाका नयनयुगल प्रतिहत होकर चञ्चलभाव धारण करता था। शुभ्रवस्त्रके समान किसी युवतीके अपने हस्तस्थित नखसमूहके किरणपुञ्जद्वारा राजा आहत होता था। कोई-कोई युवती चम्पाकी फूल पत्तोंकी मालाके समान कोमल बाहुलता द्वारा राजाको बाँध लेती थी। इस तरह कामवश होकर सुरत-क्रीड़ा करता था, जो प्रियाओंके अधरदंश होनेसे काँपते हाथोंमें हिलते हुए मणिमय कङ्गनोंके कलकलसे रमणीय लगती थी; अत्यन्त वेगमें टूटे हुए कर्णभूषणके टुकड़ोंसे शय्या ऊँची-नीची


१. कुङ्कुमपटवासधूलिभिः, कुङ्कुमवासधूलिभिः ।
२. क्वचित् 'लोल' इति पदं नास्ति ।
३. नखर... ।
४. दष्टाधराधूतकरातल, दष्टाधरकरतल... ।
५. कलकलरव, कलरव ।
६. रतिरमस... ।