कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 280, कुल 709 में से
संदर्भ में पढ़ेंइन्द्रायुधव०-२४ ] चन्द्रकला-विद्योतिनीसहिता । २४१
अतिकुटिल-कनक-पत्रलता-प्रतान-भङ्गुरण पदे पदे रणितरत्नमालेन स्थूलमुक्ताफलप्रा- चेण तारागणेनेव सन्ध्यारागम्^१। अरुणेनाश्वालङ्कारेणालङ्कृतम्, अश्वालङ्कार-निहित-मरकत- रत्नप्रभा-श्यामायमान-देहतया गगनतल-निपतित-दिवसकर-रथ-तुरग-शङ्कामिवोपजनयन्तम्^३, अतितैजस्वितया जब-निरोध-रोष-वशात् प्रतिरोमकूपात् समुद्गतानि^५ सागरपरिचय-लग्नानि^६ मुक्ताफलानीव स्वेदलवैंजालकानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानूकारिभिरञ्जनशिला- घटितैरिव अनवरत-पतनोत्पतनजनितविषम-मुख-रवैः^९ पृथुभिः खुरपुटैर्जर्जरितवसुन्धरैरमुरज-
अतीति । अतिकुटिलानाम् अत्यन्तवक्राणां कनकपत्रलतानां सुवर्णरचितपत्राकारलताकारभाग-विशेषाणां प्रतानम् आधिक्यं यत्र तच्च तद् भङ्गुरं समूहेनापि वक्रञ्चेति तेन तादृशेन पदे-पदे प्रतिपदन्यासे रणितो ध्वनितो रत्नमाला मणिस्रजो यत्र तेन तादृशेन, स्थूलानाम् अछुद्राणां मुक्ताफलानां मौक्तिकानां, प्रायः आधिक्यं यत्र तेन तादृशेन, अरुणेन लोहितवर्णेन अश्वालङ्कारेण तुरङ्गभूषणेन अलङ्कृतं मण्डितम् , अत एव तारागणेन नक्षत्रमण्डलेन सन्ध्यारागमिव सायङ्कालीनलौहित्यमिव विद्यमानम् । सन्ध्या-रागमिवेत्युपमा।
मरकवेति । अश्वालङ्कारेषु तुरङ्गभूषणेषु निहितानां स्थापितानां मरकतरत्नानाम् अश्मगर्भाणां प्रभाभिः द्युतिभिः श्यामायमानः श्यामवदाचरन् देहः शरीरं यस्य तस्य भावस्तया कारणेन, गगनतलात् आकाशतलात् निपतितः अधोयातो यो दिवसकरो दिनकृत् तस्य रथतुरगः स्यन्दनाश्वः तस्य शङ्कां स्वस्मिन् भ्रमम् उपजनयन्तमिव उत्पादग्रन्तमिव विद्यमानम् । सूर्यरथाश्वानामपि हरित्द्वर्णत्वादतिविपुलत्वाच्चेत्याशयः । उपजनयन्तमिवेति क्रियोत्प्रेक्षा ।
अतीति । अतितैजस्वितया नितान्तपराक्रमवत्तयेति च क्रोधजनने कारणम् । 'तेजो दीप्तौ प्रभावे च स्यात् पराक्रमरेतसोः' इति मेदिनी । ज़वनिरोधेन रक्षककर्तृकवेगावरोधेन यो रोषः कोपः तद्वशात् प्रति रोमकूपं प्रतिरोमरन्ध्रं समुद्गतानि उत्थितानि स्वेदलवजालकानि धर्मबिन्दुवृन्द्वानि, सागरपरिचयेन समुद्र-मध्ये सञ्चरणपौःपुन्येन लग्नानि शरीररसंसक्तानि मुक्ताफलानीव रसोद्भवानीव वर्षन्तं वृष्टिं कुर्वन्तम् । मुक्ताफलानीवेति जात्युत्प्रेक्षा ।
इन्द्रेति । इन्द्रनीलमणेः नीलकान्तरत्नस्य पादपीठानि पादासनानि अनुकर्त्तुं शीलं येषां तैः तादृशैः कृष्णवर्णत्वादित्याशयः । अञ्जनशिलया कज्जलसदृशश्यामलवर्गप्रस्तरेण घटितै रचितैरिव, अनवरतं निरन्तरं यत् पतनं पृथिव्यामवतरणम् उत्पतनं पृथिव्या उत्थानञ्च ताभ्यां जनित उत्पन्नो विषमो विकटः मुखरवः अग्रभागशब्दो येषां तैः तादृशैः, पृथुभिर्विशालैः जर्जरितवसुन्धरैः भिन्नीकृतभूतलैः खुरपुटैः शफपुटैः, मुरजवाद्यं मृदङ्गवाद्यम् अभ्यस्यन्तमिव अभ्यासं कुर्वन्तमिव तथाविधध्वन्युत्पत्तेरित्याशयः । अभ्यस्यन्तमिवेति क्रियोत्प्रेक्षा, सा चार्योपमासङ्कीर्णा ।
समान आकृतिविशिष्ट अत्यन्त वक्र ( टेढ़ ) सुवर्ण-निर्मित छोटी-छोटी रेखाएँ अधिक थीं, और वह अलङ्कार प्रायः सम्पूर्ण ही वक्र था, प्रत्येक पादक्षेपनें ( पद पद पर ) मणिमय मालाके शब्द हो रहे थे ( रत्नोंके हार खनखनाते थे ), और जिसके मध्यमें बड़े-बड़े मोती लगे थे, अत एव तारागणसे शोभित सन्ध्यारागके समान वह अश्व देखनेमे आ रहा था । उन आभूषणोंके मध्यमें स्थापित ( जड़े ) मरकत मणियोंके कान्तिसे उसका शरीर श्याम हो गया था, जिससे वह मानो आकाशमेंसे गिरे हुए सूर्यरथनियुक्त घोड़ेका भ्रम उत्पन्न कर रहा था। अत्यन्त तेजस्विताके कारण वेग रुक गया था, अत एव वह क्रोधवश प्रत्येक रोमकूपसे निकलते हुए पसीनेकी बूंदोंको वर्षा कर रहा था, इससे प्रतीत होता था कि—अनेकवार समुद्र-मध्यमें विचरण करनेसे शरीरमें लगे हुए मोतियोंको मानो वर्षा कर रहा है। विधाताने उसके विस्तृत खुरोंको मानो कज्जलके समान विस्तृत काले पाषाण द्वारा निर्माण किया था, अत एव वे नीलकान्ति-मणि-निर्मित पादपीठ ( चौकी ) के अनुकरण करते थे एवं पृथिवीको जर्जरित ( विदारित ) करते थे, इसलिए निरन्तर ऊँचे और नीचे उठनेके कारण उन खुरोंके अग्र भागके विकट शब्दों ( विषम स्वरों ) से वह मानो मृदङ्ग वाद्यका अभ्यास करता था । विधाताने उसकी जङ्घाओंको मानो काष्ठ अथवा प्रस्तरोंको उत्कीर्ण ( छोल ) कर
१. अत्र ‘च’ इति पदमधिकमुपलभ्यते क्वचित् क्वचित् । २. सन्ध्यारागम्नेव, सन्ध्यारागानुरागेव । ३. तुरङ्गन ००० । ४. ‘इव’ इति पदं क्वचिन्नास्ति । ५. ००० फूरसमुद्गतानि, कूपसमुद्गतानि । ६. ००० परिचयलग्नग्रानि । ७. स्वेदजललव००० । ८. क्वचित् ‘मणि’ इति पदन्नास्ति । ९. ००० विषमस्वरमुखरवैः ।