भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 42, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 42

प्रस्तावना

मनुभूय 'विद्योतिनी' नामिकया राष्ट्रपदनियुक्तया हिन्दीभाषयाऽप्यनूदितः। प्रस्तावनान्ते च सौकर्येणार्या- वबोधनाय हिन्दीभाषयैव कादम्बरीसमीक्षोपनिबद्धा तया तत्सारोऽप्युपनिबद्धः।

अत्रेदमवधेयम्—कस्याप्यनुवादस्य भागत्रयं भवितुमर्हति। यथा—उपाख्यानानुवादः, भावानुवादः, भाषानुवादश्चेति। तत्रोपाख्यानानुवादे ह्यनुवादको मूलाक्षरमगणयित्वैव स्वातन्त्र्येण प्रचलतीति सर्वा- पेक्षया सुगमः सः, किन्तु तयाविधेनानुवादेन ग्रन्थार्थकरणे चोपकारस्तादृशो न भवति यादृशोऽभिल- षितः। एतदपेक्षया मौलिकभावमादाय प्रवृत्तो भावानुवादो मूलार्थबोधने किञ्चित्साहाय्यं सम्पादयति। भाषानुवादो हि मूलभावस्य भाषायाश्च द्वयोरपि पूर्णरुपेणाधीनीभूय एव मूलार्थसाधुस्फोरकोऽनुवादक- कृते निरतिशयकाठिन्यं जनयति। तत्राप्येतद्ग्रन्थस्यात्यधिकक्लिष्टत्वस्य सर्वानुभवसिद्धत्वेन तस्य भाषा- नुवादविधानं न तादृशं सरलमिति विवेचकानां पुरतोऽनिरोहितमेव। अतोऽत्र केवलं साहसं विधायैवै- तत्सम्पादयितुं प्रवृत्तोऽहम्, परन्तु कियत्साफल्यं सञ्जातं तत्र प्रेक्षकाः सहृदया एव प्रमाणम्।

विशेषतो वक्तव्यमिदमेव यत्—'एकानुपूर्वीकवाचकवाच्यत्वरूपं'-सामान्यधर्ममादाय ग्रन्थकारेण सर्वत्र पूर्णोपमाः सुसञ्जीकृताः। यासां संस्कृतव्याख्यानं तु विशदरूपेण कथञ्चिद् भवत्यपि, किन्तु तादृश- स्थले भाषानुवादकरणे महाक्लेशः सञ्जायते। दिङ्मात्रं यथा—'उषानिरुद्धसमागममिव। चित्रलेखादर्शित- विचित्र-सकल-त्रिभुवनाकारम्' (का० पृ० २७६ पृ०) एतस्यानुवादो ह्येवमपि भवितुमर्हति यत्—

'उषा और अनिरुद्धके समागमके समान चित्रलेखामें दिखलाया गया है विचित्र समस्त त्रिभुवनका स्वरूप जहाँ पर ऐसा वह राजभवन था।'

किन्त्वेतादृशानुवादकरणे सादृश्यं न तिष्ठति तथानुवादोऽप्यसम्पूर्ण एव तिष्ठति, अतोऽगत्यैवमनुवादो विधीयते यत्—

'उषा अनिरुद्ध के समागममें जिस प्रकार उषाकी सखी चित्रलेखाने समस्त त्रिभुवनके युवक पुरुषोंकी आकृतिका चित्र खींचकर उषाको दिखाया था, उस राजभवनमें भी उसी प्रकार चित्रकारों द्वारा समस्त त्रिभुवनका सभी पदार्थोंके अनेक प्रकारकी आकृतिका चित्र दीवार पर खींचकर लोगोंको दिखलाया गया था।'

अत्र ह्येवंविधानुवादं विलोक्य साधारणपुरुष एवानुवादकं दूषयिष्यन्ति, किन्तु विवेचकपाठका हृदयेन सानन्दं नूनं जिघृक्षिष्यन्तीति द्रढ़ीयान् मे विश्वासः। कादम्बर्यां पूर्णोपमाया अनेकस्थलेषु विद्यमानत्वात् तत्र सर्वत्रैवंविधा एवानुवादाः सञ्जाताः। बहुषु स्थलेषु संस्कृतटीकया साधुस्फोरणे कृतेऽपि यत्र भाषानु- वादे कोऽप्युपायो न लक्षितस्तत्र भावानुवाद एव गृहीतः। एतद्ग्रन्थकृतपूर्वव्याख्यातॄणामनुवादकतॄणाञ्च साहाय्येनेवैतत्सम्पादनं मया कृतमिति तेषामानृण्यं शिरसा धारयामि।

एतत्सर्वं गीर्वाणवाग्वल्लिलितालवालकल्पानां धर्मनयविनयमनस्वितादिगुणविभूषितानां देशकु- लजातिशास्त्राचारादिसमस्तसनातनधर्ममर्यादापालनतत्पराणां देशप्रसिद्धब्रह्मकुलकमलदिवाकराणां दिगं- तयशसां काव्यकाननपञ्चाननानामस्मत्साहित्यशास्त्रगुरुवराणां कविचक्रवर्त्ति-श्री १००८ ताराचरणभट्टाचार्य- महाशयानां स्वदेशीय-व्या० सा० तीर्थ-विद्यालङ्कारानेकशिष्योपशिष्ययुतपण्डितप्रवर-बेगूसरायस्थ- 'श्रीसरस्वती विद्यालय'-प्रधानाध्यापक-श्रीगेनालालझाजी-गुरुवराणाञ्च द्वयोदयमधुरदृशा सम्पन्नम्।

ग्रन्थस्यास्य यत्र तत्र मूलपाठसंशोधने पाठान्तरविधाने चाहं प्रियसुकृद्वर्-काशीस्थ-'राजकीय संस्कृतमहाविद्यालय'-न्यायाध्यापक-न्याय-वेदान्ताचार्य-काव्य-दर्शनतीर्थ-श्रीसुरेन्द्रनाथद्विवेदी महाभा- गमत्रत्यनेपालदेशीय 'हरिहर-संस्कृत-विद्यालय' प्रधानाध्यापक-व्या० सा० सां० पुराणाचार्य-श्रीकृष्ण- मणित्रिपाठि महाभागं च मुहुर्मुहुः स्मरामि, अभिनन्दामि च तदुपकारसहस्रमजस्रम्।

सम्पादने चास्मिन् परोपकारवद्धपरिकर सुरभारतीसंरक्षणतत्परनिजपितृस्मारक-'श्रीभवानीशङ्कर- संस्कृतमहाविद्यालय'सञ्चालक-काशीविश्वनाथमन्दिराध्यक्ष-श्रीराममङ्गलत्रिपाठिमहाभागानाम, भूमिकाले- खनकार्ये विविधसहायकपुस्तकप्रापकाणां विविधानवद्यविद्याविभूषित-विद्याभास्कर-शास्त्राचार्य-श्रीदेवी- नारायणप्राडूविवाक (एडवोकेट) महाभागानाञ्चोपकृतिसहस्रमजस्रमभिनन्दामि।