कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 476, कुल 709 में से
संदर्भ में पढ़ेंपुण्डरीकाद्योपदेशारम्भ० ६४ ] चन्द्रकला-विद्योतिनीसहिता । [ ४३७
गृहीत्वा सलीलं तद्भुज-पाश-सन्दानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्व-हारलता-लीलां कण्ठाभरणतामनयम्।
इत्थम्भूते च व्यतिकरे छत्रग्राहिणी मामवोचत्-‘भर्त्तृदारिके ! स्नाता देवी, प्रत्यासीदति गृहगमनकालः, तत्क्रियतां मज्जनविधिः’ इति । अहन्तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छन्ती कथं कथमपि समाकृष्यमाणा तन्मुखाल्लावण्यपङ्कमग्नामिव कपोल-पुलकैः-कण्टक-जालक-लग्नामिव, मदन-शर-शलाका-कीलितामिव, सौभाग्यगुण-स्यूतामिव अतिकृच्छ्रेण दृष्टिमाकृष्य स्नातुमुदचलम् । उच्चलितायाञ्च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्य्यस्खलितमालोक्य किञ्चित्प्रकटितप्रणयकोप इवावादीत्—
गृहीत्वा आदाय, तस्य तरुणस्य भुजपाशाभ्यां बाहुपाशाभ्यां सन्दानितः परिवेष्ट्य संयतो यः कण्ठस्तत्र ग्रहसुखं तदालिङ्गनसुखम् अनुभवन्तीव साक्षात्कुर्वन्तीव, दर्शिता प्रकटीता अपूर्वा या आश्चर्य्यरूपया, हारलताया मुक्तालताया लीला शोभा यया तां तादृशीं सतीम्, सलीलं यथा स्यानया कण्ठाभरणतां कण्ठभूषणताम् अनयम् आनीतवती ।
इह 'अनुभवन्तीव' इति क्रियोत्प्रेक्षा, हारलताया लीलेव लीलेति औपम्याक्षेपादसम्भवद्वस्तुसम्बन्धा निदर्शना चेत्यनयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
इत्यमिति । इत्थम्भूते एतादृशे, व्यतिकरे अन्योन्यासक्तिनिबन्धनाचारे छत्रग्राहिणी सदातपत्रधारिणी माम् अवोचत् अब्रवीत्—‘भर्त्तृदारिके राजपुत्रि ! स्नाता कृतमज्जना देवी स्वन्माता वर्तते अथ च गृहगमनकालः भवनव्रजनसमयः प्रत्यासीदति निकटगतो भवति उपस्थितो भवतीत्यर्थः, तत्तस्मात् मज्जनविधिः स्नानकार्यं क्रियतां विधीयताम्' इति ।
अहमिति । तु किन्तु अहं प्रथमाङ्कुशपातेन आद्यसृणिप्रहारेण, नवो नूतनो ग्रहो धारणं यस्याः सा तथोक्ता करिणी हस्तिनीव, तस्याः छत्रग्राहिण्याः तेन वचनेन वाक्येन, अनिच्छन्त्या अनीहया कथं कथमपि महता कष्टेन समाकृष्यमाणा सती, लावण्यं तस्य सौन्दर्यमेव पङ्कः कर्दमः तत्र मग्नां लीनामिव, क्लेशेनार्कषणादित्याशयः । कपोलयोः तदीयगण्डयोः पुलका रोमाञ्चा एव कण्टकाः क्षुद्रशत्रवः तेषां जालके जाले लग्नां संसक्तामिव कष्टेनाकर्षणादित्याशयः । ‘कण्टकः क्षुद्रशत्रौ च' इति विश्वः । मदनस्य कामस्य शरशलाकाभिः बाणेषिकाभिः कीलितां विद्धामिव, सौभाग्यमेव गुणः तन्तुः तेन स्यूतां कृतसीवनामिव क्लेशेनाकर्षणादिति प्राग्वदिवाशयः । तन्मुखात् तदाननात् अतिकृच्छ्रेण अतिवलेशेन दृष्टिं चक्षुः समाकृष्य परावर्त्य स्नातुं मज्जितुम् उदचलम् उदव्रजम् ।
इह 'नवग्रहा करिणी' इत्यत्रोपमा, 'लावण्यपङ्कमग्नामिव' इत्यत्र निरङ्गकेवलरूपकक्रियोत्प्रेक्षयोरङ्गाङ्गिभावसङ्करः, एवं 'कपोलपुलके' त्यत्र, 'सौभाग्यगुणस्यूतामिद' इत्यत्र चोक्ताऽलङ्कार एव । 'मदनशरशलाकाकीलितामिव' इत्यत्र तु क्रियोत्प्रेक्षा ।
उच्चलितेति । किञ्च, उच्चलितायां मद्व्रजितायां मयि द्वितीयो मुनिदारकः अपरस्तपस्विबालकः तस्य पुण्डरीकस्य धैर्य्यस्खलितं मदनविकारेण धृतिमङ्गम् आलोक्य निरीक्ष्य किञ्चित् प्रकटितः ईषदावि-
रोक कर मैने ले लिया और उस कुमारके भुज-पाशको मानो अपने कण्ठमें वेष्टन कर आलिङ्गन करनेका सुख मान कर अपूर्व हार-लताकी शोभा दिखाती उस मालाको मैंने लीलाके साथ अपने कण्ठका आभरण कर लिया ।
आसक्तिवश परस्पर इस प्रकारका व्यवहार हो जानेपर, मेरी छत्रधारिणी परिचारिकाने मुझसे कहा—'राजकन्ये ! महारानी स्नान कर चुकीं और घर चलनेका समय उपस्थित हो गया है अतः एव आप भी स्नान कर लें' अंकुशके प्रथम ही प्रहार (चोट) से पकड़ी हुई अभिनवा हस्तिनीके समान मैं उस परिचारिकाके वचनसे अनिच्छापूर्वक ही बड़े बड़े प्रयत्नसे पीछे हटी; उस समय मेरी दृष्टि, उसके लावण्यरूपी पङ्कमें मानो फँस गई थी, उसके गण्डस्थल (गाल) पर उत्पन्न हुए रोमाञ्चरूपी कण्टक जालमें मानो प्रविष्ट कर गई थी; कामदेवकी शर-शलाका (बाणरूपी सलाई) से मानो विद्ध हो गई थी; एवं सौभाग्यरूपी सूत्रसे मानो सिल गई थी; अत एव मैं अतिकष्टसे उसके मुखमण्डलसे उस दृष्टिको हटाकर स्नान करनेको चली । मेरे स्नान करनेके लिए चले जाने पर, वह द्वितीय मुनिकुमार पुण्डरीकका इस प्रकार मदनविकारसे धैर्य्यस्खलन देखकर मानो कुछ प्रणय-कोप प्रकट करके ही कहने लगा—
१. क्वचित् ‘अपि’ इत्यधिकं पदमत्र दृश्यते । २. स्नानाय । ३. तथाविधः ।