भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 480, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 480

कामाकुलमहाश्वेतादशाव० ६५] चन्द्रकला-विद्योतिनीसहिता। ४४१

सर्वञ्च नाज्ञासिषम्। केवलमारुह्य कुमारीपुरप्रासादं विसर्ज्य च सखीजनं द्वारि निवारि- ताशेषपरिजनप्रवेशा सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव कुसुमितामिव¹ महारत्ननिधानाधिष्ठितामिव अमृतरससागरे²पूर- प्लावितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्त- मनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्त्ता प्रष्टुमीहमाना, तद्वल्लभतया तपः- क्लेशायापि स्पृहयन्ती, तत्प्रीत्येव गृहीत‌मौनव्रता, स्मरजनित-पक्षपाता च, तत्परिग्रहान्मुनि-

किं करोमि अनुतिष्ठामि, किं शृणोमि आकर्णयामि, किं पश्यामि अवलोकयामि, किम् आलपामि वदामि, किं कथयामि निवेदयामि, अस्य कः प्रतीकारः प्रतिक्रिया इति सर्वं निखिलं च नाज्ञासिषम् न ज्ञातवती।

केवलनिति। केवलम् अन्यनिरपेक्षं कुमारीपुरप्रासादं कन्यकावरोधगृहम् आरुह्य आरोहणं विधाय च पुनः सखीजनं सहचरीवर्गं विसर्ज्य स्वस्थानं व्रजेत्यभिधाय द्वारि प्रतोश्यां निवारितो निषिद्धः अशे- षाणां समस्तानां परिजनानां सेवकानां प्रवेशः अभ्यन्तरागमनं यया सा, सर्वव्यापारान् समस्तकृत्यानि उत्सृज्य विमुच्य एकाकिनी अद्वितीया, मणीनां रत्नानां जालं समूहो यत्र तथोके गवाक्षे वातायने निक्षिप्तं स्थापितं मुखं वदनं यया सा। तेन तपस्विकुमारेण सनाथतया संयुक्ततया कारणेन, प्रसाधितां भूषिता- मिव, कुसुमितां समुत्पन्नपुष्पामिव, महान्ति बहुमूल्यवन्ति रत्नानि मणयो यत्र तथोकेन निधानेन निधिना अधिष्ठिता आश्रिता तामिव, अमृतरसस्य पीयूषद्रव्यस्य यः सागरः समुद्रः तस्य पूरेण प्लवेन प्लावितामिव पूरितामिव, पूर्णचन्द्रोदयेन समग्रचन्द्रोद्गमेन अलङ्कृतां भूषितामिव, दर्शनसुभगाम् अव- लोकनेन मनोहरम्, तामेव तपस्विकुमारकाधिष्ठितामेव दिशं ककुभं केवलम् ईक्षमाणा अवलोकमाना सती, निष्पन्दं निश्चेष्टम् अतिष्ठमित्युत्तरेण सम्बन्धः। एवमन्येषामपि प्रथमान्तपदानां सम्बन्धो ज्ञेयः।

इह 'प्रसाधितामिव' इत्यारभ्य 'पूर्णचन्द्रोदयादलङ्कृतामिव' इत्यन्तानां पञ्चानामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।

तस्मादिति। तस्मात् दिगन्तरात् तेन तपस्विकुमारकेणाश्रितादिग्विदेशात्, आगच्छन्तम् आयान्तम् अनिलं वायुमपि, वनकुसुमपरिमलमपि अरण्यपुष्पसौरभमपि तस्माद्दिगन्तरादागच्छन्तमित्यन्वीयते, शकुनिध्वनिमपि तादृशं पक्षिणिनादमपि, तस्य तपस्विकुमारस्य वार्त्ताम् उदन्तं प्रष्टुं प्रश्नविषयीकर्तुम् ईहमाना अभिलषन्ती सती, 'कामात्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु' इति न्यायादित्याशयः। पृच्छुधा- तोर्द्विकर्मकत्वात् 'अनिलम्' इत्यादिषु त्रिषु 'तद्वार्त्ताम्' इत्यत्र च द्वितीया बोध्या।

तदिति। तस्य तपस्विकुमारस्य वल्लभतया प्रियतया तपःक्लेशस्येत्यभिप्रायः, तपःक्लेशायापि तपश्चरणकष्टमपि स्पृहयन्ती अभिलषन्ती, तस्य तपस्विकुमारस्य प्रीत्येव मौनव्रते प्रेम्णेव कारणेन, गृहीत- मौनव्रता अर्थात् तूष्णीमवस्थिता। प्रियजनस्य प्रियविषये स्वस्यापि प्रेम्णः सर्वत्र सिद्धत्वादिति स्थलद्वयेऽपी- त्यभिप्रायः। इह हेतूत्प्रेक्षा।

स्मरेति। स्मरेण कामेन जनित उत्पादितः पक्षपातः सङ्गीकारः तादृशे कुमारे प्रेम यस्याः


होनेसे—कहां जाऊं, क्या करूँ क्या देखूँ, क्या बोलूँ, किसके निकट कहूँ और इसका क्या प्रतीकार करना—ये सब कुछ भी मैं न समझ सकी। बाद कुमारियोंके निवास करनेके महल पर चढ कर, सब सखियोंको विदाकर, द्वार पर सब परिजनोंको भी प्रवेश करनेका निषेध कर, समस्त कार्य परित्याग कर, मणिमय जाली-युक्त गवाक्ष- (खिड़की) में मुखमण्डल संस्थापन कर, निरीक्षण करनेमें मनोहर लगती केवल उसी दिशाकी ओर अवलोकन करती मै अकेली (निश्चलभावसे) सीधी खड़ी रही। मुनिकुमारके उस दिशामें रहनेसे मुझे वह (दिक्) मानो अलङ्कृत हो, पुष्पसे ही मानो शोभित हो, बहुमूल्य-रत्नोंके भण्डारसे मानो परिपूर्ण हो, अमृत-रस-सागरके तरङ्गमें मानो डूबी हो और पूर्णचन्द्रके उदयसे मानो अलङ्कृत हो—ऐसी दीखने लगी। उस दिशासे आती पवनसे भी, वन्यपुष्पके सौरभसे भी, पक्षियोंके स्वरसे भी मैं उसका समाचार पूछनेकी चेष्टा करती थी। तपस्या उसे प्रिय होनेके कारण उस (तपस्या) का कष्ट उठानेकी भी मैं इच्छा करती थी। उसमें अपनी प्रीति होनेके कारण ही मानो मैंने मौनव्रत अवलम्बन किया था। कामदेवका उसके प्रति मेरा अत्यन्त पक्षपात उत्पन्न करनेसे

१. क्वचित् 'कुसुमितामिव' इति पाठो न दृश्यते। २. क्वचित् 'सार' इत्यधिकः पाठ उपलभ्यते।

२८ का०