कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 487, कुल 709 में से
संदर्भ में पढ़ें४४८ | कादम्बरी- | [ कथायाम्-
सादरसाभाषमाणा, पार्श्वस्थितामपि¹ सर्वलोकोपर्यवस्थितामिव पश्यन्ती, कपोलयोर- लकलताभङ्गेषु² च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसम्बन्धमुपदर्शयन्ती, 'तर- लिके ! कथय³ कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्नसमानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ।
अथ मदीयेनेव हृदयेन कृतरागसविभागे लोहितायति गगनतलोपान्तालम्बिनि⁴ रविविम्वे, सरागदिवसकरानुरक्तायां कृतकमलशयनायामनङ्गातुरयामित्र पाण्डुतां व्रजन्त्या-
पार्श्वेति । पार्श्वे स्वस्यापरस्मिन् भागे अवस्थितामपि आसीनार्मापि सर्वलोकस्य समस्तविश्वस्य उपरि ऊर्ध्वं अवस्थितामिव निषण्णामिव पश्यन्ती अवलोकमाना, इहापि पुण्डरीकस्य द्वितीयवारा- वलोकनेन कारणेनेत्याशयः । इह 'अवस्थितामिव' इति क्रियोत्प्रेक्षा ।
कपोलयोरिति । कपोलयोर्गण्डयोः अलकलता भङ्गेषु वल्लीवत्स्वभावतःस्वल्लितकुञ्चितकचसमूहेषु सोपग्रहं सानुकूल्यम् आदरयुक्तमित्यर्थः, यथा स्यात्तथा स्पृशन्ती स्पर्श विदधती । 'उपग्रहः पुमान् बन्द्यामुपयोगेऽनुकूलने' इति मेदिनी । 'भवने व्रजति' इत्यत्र कर्मणोऽधिकरणत्वविवक्षया सप्तमी यथा भवति तथैव 'अलकलताभङ्गेषु' इत्यत्रापि सप्तमीत्यवगन्तव्यम् ।
विपरीतमिति । परिजनस्वामिसम्बन्धं सेव्यसेवकभावं विपरीतमिव विरुद्धमिव उपदर्शयन्ती अहं सेविका सा तु सेव्या एवं रूपेण बहिर्वृत्या प्रकाशयन्तीत्यर्थः, पुण्डरीकस्य द्वितीयवारावलोकनेन मयैव तस्या निरतिशयगौरवसत्कारविधानादित्याशयः ।
तरेति । तरलिके वयस्ये ! कथय निवेदय स पुण्डरीकः कथं केन प्रकारेण त्वया भवत्या दृष्टोऽवलो- कितः, किम् अभिहितासि कथितासि तेन पुण्डरीकेण, तत्र तस्मिन् वने कियन्तं कालं कियत्समयम् अव- स्थितासि अवतिष्ठमानासि, अस्मान् स्वभवने आयान्तीरिति शेषः, असौ मुनिकुमारः, अनुसरन् पृष्ठेऽनु- व्रजन् कियत्पन्थानम् आगत आयातः ।
अनयेति । अनयैव पूर्वोक्तयैव कथया वार्त्तया तया तरलिकया सह तस्मिन्नेव प्रासादे पूर्वनिर्दिष्ट एव सौधे, प्रतिषिद्धो निवारितः अशेषाणां समस्तानां परिजनानां सेवकवर्गाणां प्रवेशोऽभ्यन्तरागमनं यया तादृशी सती दिवसं वासरम् अत्यवाहयम् अगमयम् ।
अथेति । रविविम्वे सूर्यमण्डले, मदीयेन हृदयेन चेतसा कृतो विहितः रागसंविभागः रागोऽनुराग एव रागो लौहित्यं तस्य संविभागो विभज्य समर्पणं यस्मै तस्मिन्निव सति, लोहितायति ईषद्रक्तीभवति, गगनतलस्य व्योमतलस्य उपान्तात् प्रान्तप्रायभागात् अवलम्बिनि पतनोन्मुखे च सति ।
इहानुरागलोहित्ययोर्व्यतिरेकेऽपि रागपदश्लेषेणाव्यतिरेकाध्यवसायादतिशयोक्तिरलंङ्कारः। रागसं- विभागकरणोत्प्रेक्षणात्क्रियोत्प्रेक्षा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करालङ्कारः ।
सरागेति । आतपलक्ष्म्यां सूर्यप्रकाशश्रियाम्, रागो लौहित्यमेव रागोऽनुरागः तेन सहेति सरागो यो दिवसकरो रविः तत्र अनुरक्तायां लोहितायाम् अनुरागवत्याञ्च सत्याम्, अत एव कृतं विहितं कमले पङ्कजे कमलमयास्तरणे च शयनं स्थितिः स्वापश्च यया तस्याम्, अत एव अनङ्गातुरया मदनविह्वलि- तायामिव विद्यमानायां पाण्डुतां श्वेततां व्रजन्त्यां गच्छन्त्यां सत्याम् ।
बगलमें बैठने पर भी मानो वह सब लोकके ऊपर हो, इस प्रकार मैं उसे देखने लगी । उसके कपोलका और उसके कुञ्चित केशकलाप (घुँघराली लटों) का आदरके साथ स्पर्श करने लगी। इस प्रकार सेव्य-सेवकके सम्बन्धका मानो व्यतिक्रम दिखाती-'तरलिके ! कह, तूने उसे किस भावसे देखा ? उन्होंने तुझसे क्या-क्या कहा ? कितनी देर तू उसके पास खड़ी रही, वे मेरे अनुकरण करते करते (पीछे-पीछे) कितने दूर तक आए' यह बात मैं बार-बार उससे पूछने लगी। समस्त परिजनोंको प्रवेश करनेका निषेध कर उस अट्टालिका (महल) के अभ्यन्तरमें तरलिकामे साथ इसी बातचीतमें ही मैंने वह दिन बिताया।
उसके बाद मेरा हृदय ही मानो सूर्यमण्डलके राग (अनुराग, रक्तिमा) को विभक्त कर दिया, उससे सूर्यमण्डल रक्तवर्ण होकर गगन-तलके किनारे पर जब लटकने लगा, दिवस-लक्ष्मी, रागान्वित सूर्यके प्रति अनुरक्त
१. पार्श्वस्थामपि । २. अलकलामङ्गेषु; अलकलतासङ्गेषु । ३, कथय कथय । ४. गगनतलावम्विनि ।